अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 13
सूक्त - भृगुः
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
अ॒स्मिन्व॒यं संक॑सुके अ॒ग्नौ रि॒प्राणि॑ मृज्महे। अभू॑म य॒ज्ञियाः॑ शु॒द्धाः प्र ण॒ आयूं॑षि तारिषत् ॥
स्वर सहित पद पाठअ॒स्मिन् । व॒यम् । सम्ऽक॑सुके । अ॒ग्नौ । रि॒प्राणि॑ । मृ॒ज्म॒हे॒ । अभू॑म । य॒ज्ञिया॑: । शु॒ध्दा: । प्र । न॒: । आयूं॑षि । ता॒रि॒ष॒त् ॥२.१३॥
स्वर रहित मन्त्र
अस्मिन्वयं संकसुके अग्नौ रिप्राणि मृज्महे। अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषत् ॥
स्वर रहित पद पाठअस्मिन् । वयम् । सम्ऽकसुके । अग्नौ । रिप्राणि । मृज्महे । अभूम । यज्ञिया: । शुध्दा: । प्र । न: । आयूंषि । तारिषत् ॥२.१३॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 13
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १३−(अस्मिन्) (वयम्) (संकसुके) म० ११। सम्यक् शासके (अग्नौ) अग्निवत्प्रतापिनि राजनि (रिप्राणि) पापानि (मृज्महे) शोधयामः (अभूम) (यज्ञियाः) संगतियोग्याः (शुद्धाः) शुद्धाचरणाः (नः) अस्माकम् (आयूंषि) जीवनानि (प्रतारिषत्) अ० २।४।६। प्रवर्धयेत् ॥
इस भाष्य को एडिट करें