अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 41
सूक्त - भृगुः
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
ता अ॑ध॒रादुदी॑ची॒राव॑वृत्रन्प्रजान॒तीः प॒थिभि॑र्देव॒यानैः॑। पर्व॑तस्य वृष॒भस्याधि॑ पृ॒ष्ठे नवा॑श्चरन्ति स॒रितः॑ पुरा॒णीः ॥
स्वर सहित पद पाठता:। अ॒ध॒रात् । उदी॑ची: । आ । अ॒व॒वृ॒त्र॒न् । प्र॒ऽजा॒न॒ती: । प॒थिऽभि॑: । दे॒व॒ऽयानै॑: । पर्व॑तस्य । वृ॒ष॒भस्य॑ । अधि॑ । पृ॒ष्ठे । नवा॑: । च॒र॒न्ति॒ । स॒रित॑: । पु॒रा॒णी: ॥२.४१॥
स्वर रहित मन्त्र
ता अधरादुदीचीराववृत्रन्प्रजानतीः पथिभिर्देवयानैः। पर्वतस्य वृषभस्याधि पृष्ठे नवाश्चरन्ति सरितः पुराणीः ॥
स्वर रहित पद पाठता:। अधरात् । उदीची: । आ । अववृत्रन् । प्रऽजानती: । पथिऽभि: । देवऽयानै: । पर्वतस्य । वृषभस्य । अधि । पृष्ठे । नवा: । चरन्ति । सरित: । पुराणी: ॥२.४१॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 41
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४१−(ताः) आपः। आप्ताः प्रजाः−म० ४०। (अधरात्) निम्नपदात् (उदीचीः) उपरिगच्छन्त्यः (आ अववृत्रन्) म० २२। आवृता अभवन् (प्र जानतीः) बहुविदुष्यः (पथिभिः) मार्गैः (देवयानैः) विद्वद्भिर्गन्तव्यैः (पर्वतस्य) शैलस्य (वृषभस्य) वृषु सेचने−अभच् कित्। वर्णशीलस्य (अधि) उपरि (पृष्ठे) उच्चप्रदेशे, (नवाः) नवीनाः (चरन्ति) प्राप्नुवन्ति (सरितः) नद्यः (पुराणीः) पुरातनीर्नदीः ॥
इस भाष्य को एडिट करें