Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 19
    सूक्त - भृगुः देवता - अग्निः छन्दः - अनुष्टुप् सूक्तम् - यक्ष्मारोगनाशन सूक्त

    सीसे॑ मृड्ढ्वं न॒डे मृ॑ड्ढ्वम॒ग्नौ संक॑सुके च॒ यत्। अथो॒ अव्यां॑ रा॒मायां॑ शीर्ष॒क्तिमु॑प॒बर्ह॑णे ॥

    स्वर सहित पद पाठ

    सीसे॑ । मृ॒ड्ढ्व॒म् । न॒डे । मृ॒ड्ढ्व॒म् । अ॒ग्नौ । सम्ऽक॑सुके । च॒ । यत् । अथो॒ इति॑ । अव्या॑म् । रा॒माया॑म् । शी॒र्ष॒क्तिम् । उ॒प॒ऽबर्ह॑णे ॥२.१९॥


    स्वर रहित मन्त्र

    सीसे मृड्ढ्वं नडे मृड्ढ्वमग्नौ संकसुके च यत्। अथो अव्यां रामायां शीर्षक्तिमुपबर्हणे ॥

    स्वर रहित पद पाठ

    सीसे । मृड्ढ्वम् । नडे । मृड्ढ्वम् । अग्नौ । सम्ऽकसुके । च । यत् । अथो इति । अव्याम् । रामायाम् । शीर्षक्तिम् । उपऽबर्हणे ॥२.१९॥

    अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 19

    टिप्पणीः - १९−(सीसे) म० १। बन्धननाशके विधाने (मृड्ढ्वम्) शोधयत (नडे) म० २। बन्धने तृणविशेषवत्तीक्ष्णशस्त्रे (मृड्ढ्वम्) (अग्नौ) अग्निवत्तेजस्विन् पुरुषे (संकसुके) म० ११। सम्यक् शासके (च) (यत्) या शीर्षक्तिस्ताम् (अथो) अपि च (अव्याम्) सर्वधातुभ्य इन्। उ० ४।११८। अव रक्षणादिषु−इन्। रक्षिकायां प्रकृतौ सृष्टौ। अधिः=रक्षिका प्रकृतिः−दयानन्दभाष्ये, यजु० २३।५४। (रामायाम्) रमयतीति रामा, रमु क्रीडायाम्−ण। रमयित्र्याम्। आनन्दयित्र्याम् (शीर्षक्तिम्) अ० १।१२।३। शीर्ष+अञ्चु गतिपूजनयोः−क्तिन्। शिरःपीडाम्। विघ्नम् (उपबर्हणे) अ० ९।७।२९। उप+बर्ह वृद्धौ−ल्युट्। सुवर्धने ॥

    इस भाष्य को एडिट करें
    Top