Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 35
    सूक्त - भृगुः देवता - अग्निः छन्दः - अनुष्टुप् सूक्तम् - यक्ष्मारोगनाशन सूक्त

    द्वि॑भागध॒नमा॒दाय॒ प्र क्षि॑णा॒त्यव॑र्त्या। अ॒ग्निः पु॒त्रस्य॑ ज्ये॒ष्ठस्य॒ यः क्र॒व्यादनि॑राहितः ॥

    स्वर सहित पद पाठ

    द्वि॒भा॒ग॒ऽध॒नम् । आ॒ऽदाय॑ । प्र । क्षि॒णा॒ति॒ । अव॑र्त्या । अ॒ग्नि: । पु॒त्रस्य॑ । ज्ये॒ष्ठस्य॑ । य: । क्र॒व्य॒ऽअत् । अनि॑:ऽआहित: ॥२,३५॥


    स्वर रहित मन्त्र

    द्विभागधनमादाय प्र क्षिणात्यवर्त्या। अग्निः पुत्रस्य ज्येष्ठस्य यः क्रव्यादनिराहितः ॥

    स्वर रहित पद पाठ

    द्विभागऽधनम् । आऽदाय । प्र । क्षिणाति । अवर्त्या । अग्नि: । पुत्रस्य । ज्येष्ठस्य । य: । क्रव्यऽअत् । अनि:ऽआहित: ॥२,३५॥

    अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 35

    टिप्पणीः - ३५−(द्विभागधनम्) सञ्चितक्रियमाणपुण्यभागयुक्तं धनम् (आदाय) गृहीत्वा (प्र) सर्वथा (क्षिणाति) क्षि हिंसायाम्−लट्। क्षिणोति। नाशयति (अवर्त्या) वृतु−इन्। वृत्या जीविकाया राहित्येन (अग्निः) अग्निवत्सन्तापको दोषः (पुत्रस्य) पुवो ह्रस्वश्च। उ० ४।१६५। पूञ् शोधने−क्त। शोधकस्य पुरुषस्य (ज्येष्ठस्य) प्रशस्य−इष्ठन्, ज्य च। प्रशस्यतमस्य। श्रेष्ठस्य (यः) (क्रव्यात्) मांसभक्षकः (अनिराहितः) दधातेः−क्त। अबहिष्कृतः ॥

    इस भाष्य को एडिट करें
    Top