अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 44
सूक्त - भृगुः
देवता - अग्निः
छन्दः - एकावसाना द्विपदार्ची बृहती
सूक्तम् - यक्ष्मारोगनाशन सूक्त
अ॑न्त॒र्धिर्दे॒वानां॑ परि॒धिर्म॑नु॒ष्याणाम॒ग्निर्गा॑र्ह्पत्य उ॒भया॑नन्त॒रा श्रि॒तः ॥
स्वर सहित पद पाठअ॒न्त॒:ऽधि: । दे॒वाना॑म् । प॒रि॒ऽधि: । म॒नु॒ष्या᳡णाम् । अ॒ग्नि: । गार्ह॑ऽपत्य: । उ॒भया॑न् । अ॒न्त॒रा । श्रि॒त: ॥२.४४॥
स्वर रहित मन्त्र
अन्तर्धिर्देवानां परिधिर्मनुष्याणामग्निर्गार्ह्पत्य उभयानन्तरा श्रितः ॥
स्वर रहित पद पाठअन्त:ऽधि: । देवानाम् । परिऽधि: । मनुष्याणाम् । अग्नि: । गार्हऽपत्य: । उभयान् । अन्तरा । श्रित: ॥२.४४॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 44
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४४−(अन्तर्धिः) उपसर्गे घोः कि। पा० ३।३।९२। श्रदन्तरोरुपसर्गवद्वृतिः। वा० पा० ३।१०६। अन्तर्+डुधाञ् धारणपोषणयोः−कि। मध्ये धारकः (देवानाम्) दिव्यगुणानाम् (परिधिः) सर्वतो धारकः (मनुष्याणाम्) मननशीलानां जनानाम् (अग्निः) ज्ञानस्वरूपः परमेश्वरः (गार्हपत्यः) गृहपतिभिः संयुक्तः (उभयान्) देवमनुष्यान् (अन्तरा) मध्ये (श्रितः) स्थितः ॥
इस भाष्य को एडिट करें