अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 25
सूक्त - भृगुः
देवता - मृत्युः
छन्दः - त्रिष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
यथाहा॑न्यनुपू॒र्वं भ॑वन्ति॒ यथ॒र्तव॑ ऋ॒तुभि॒र्यन्ति॑ सा॒कम्। यथा॑ न॒ पूर्व॒मप॑रो॒ जहा॑त्ये॒वा धा॑त॒रायूं॑षि कल्पयै॒षाम् ॥
स्वर सहित पद पाठयथा॑ । अहा॑नि । अ॒नु॒ऽपू॒र्वम् । भव॑न्ति । यथा॑ । ऋ॒तव॑: । ऋ॒तुऽभि॑: । यन्ति॑ । सा॒कम् । यथा॑ । न । पूर्व॑म् । अप॑र: । जहा॑ति । ए॒व । धा॒त॒: । आयूं॑षि । क॒ल्प॒य॒ । ए॒षाम् ॥२.२५॥
स्वर रहित मन्त्र
यथाहान्यनुपूर्वं भवन्ति यथर्तव ऋतुभिर्यन्ति साकम्। यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषाम् ॥
स्वर रहित पद पाठयथा । अहानि । अनुऽपूर्वम् । भवन्ति । यथा । ऋतव: । ऋतुऽभि: । यन्ति । साकम् । यथा । न । पूर्वम् । अपर: । जहाति । एव । धात: । आयूंषि । कल्पय । एषाम् ॥२.२५॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 25
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २५−(यथा) येन प्रकारेण (अहानि) दिनानि (अनुपूर्वम्) यथाक्रमम्। पूर्वमनुक्रमेण (भवन्ति) वर्तन्ते (यथा) (ऋतवः) वसन्तादयः (ऋतुभिः) (यन्ति) गच्छन्ति (साकम्) सह (यथा) येन कारणेन (न) निषेधे (पूर्वम्) पूर्वकालीनं जनकादिकम् (अपरः) अर्वाक्कालीनः पुत्रादिः (जहाति) त्यजति (एव) तेन कारणेन (धातः) हे विधातः परमेश्वर (आयूंषि) जीवनानि (कल्पय) समर्थय (एषाम्) प्राणिनाम् ॥
इस भाष्य को एडिट करें