Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 31
    सूक्त - भृगुः देवता - मृत्युः छन्दः - त्रिष्टुप् सूक्तम् - यक्ष्मारोगनाशन सूक्त

    इ॒मा नारी॑रविध॒वाः सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ सं स्पृ॑शन्ताम्। अ॑न॒श्रवो॑ अनमी॒वाः सु॒रत्ना॒ आ रो॑हन्तु॒ जन॑यो॒ योनि॒मग्रे॑ ॥

    स्वर सहित पद पाठ

    इ॒मा: । नारी॑: । अ॒वि॒ध॒वा: । सु॒ऽपत्नी॑: । आ॒ऽअञ्ज॑नेन । स॒र्पिषा॑ । सम् । स्पृ॒श॒न्ता॒म् । अ॒न॒श्रव॑: । अ॒न॒मी॒वा: । सु॒ऽरत्ना॑: । आ । रो॒ह॒न्तु॒ । जन॑य: । योनि॑म् । अग्रे॑ ॥२.३१॥


    स्वर रहित मन्त्र

    इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं स्पृशन्ताम्। अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥

    स्वर रहित पद पाठ

    इमा: । नारी: । अविधवा: । सुऽपत्नी: । आऽअञ्जनेन । सर्पिषा । सम् । स्पृशन्ताम् । अनश्रव: । अनमीवा: । सुऽरत्ना: । आ । रोहन्तु । जनय: । योनिम् । अग्रे ॥२.३१॥

    अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 31

    टिप्पणीः - ३१−(इमाः) विदुष्यः (नारीः) नार्यः (अविधवाः) धूञ् धुञ् वा कम्पने−पचाद्यच्, यद्वा, धावु गतिशुद्ध्योः−पचाद्यच्, ह्रस्वः पृषोदरादित्वात्। धवाः=मनुष्याः−निघ० २।३। विधवा विधातृका भवति विधवनाद्वा विधावनाद्वेति घर्मशिरा अपि वा धव इति मनुष्यनाम तद्वियोगाद् विधवा−निरु० ३।१५। सधवाः। समनुष्याः (सुपत्नीः) धार्मिकपतिकाः (आञ्जनेन) आङ्+अञ्जू म्रक्षणे−ल्युट्। समन्ताद् मेलनेन (सर्पिषा) धृतादिसारपदार्थेन (संस्पृशन्ताम्) संयुक्ता भवन्तु (अनश्रवः) अश्रुवर्जिताः। अरुदत्यः (अनमीवाः) अरोगाः। शारीरिकमानसिकदुःखवर्जिताः (सुरत्नाः) बहुमूल्यधनोपेताः (आ रोहन्तु) अधितिष्ठन्तु (जनयः) जनन्यः मातरः (योनिम्) मिश्रणस्थानम्। गृहम्। समाजम् (अग्रे) प्रधाने स्थाने ॥

    इस भाष्य को एडिट करें
    Top