Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 47
    सूक्त - भृगुः देवता - अग्निः छन्दः - पञ्चपदा बार्हतवैराजगर्भा जगती सूक्तम् - यक्ष्मारोगनाशन सूक्त

    इ॒ममिन्द्रं॒ वह्निं॒ पप्रि॑म॒न्वार॑भध्वं॒ स वो॒ निर्व॑क्षद्दुरि॒ताद॑व॒द्यात्। तेनाप॑ हत॒ शरु॑मा॒पत॑न्तं॒ तेन॑ रु॒द्रस्य॒ परि॑ पाता॒स्ताम् ॥

    स्वर सहित पद पाठ

    इ॒मम् । इन्द्र॑म् । वह्नि॑म् । पप्रि॑म् । अ॒नु॒ऽआर॑भध्वम् । स: । व॒: । नि: । व॒क्ष॒त् । दु॒:ऽइ॒तात्। अ॒व॒द्यात् । तेन॑ । अप॑ । ह॒त॒ । शरु॑म् । आ॒ऽपत॑न्तम् । तेन॑ । रु॒द्रस्य॑ । परि॑ । पा॒त॒ । अ॒स्ताम्॥२.४७॥


    स्वर रहित मन्त्र

    इममिन्द्रं वह्निं पप्रिमन्वारभध्वं स वो निर्वक्षद्दुरितादवद्यात्। तेनाप हत शरुमापतन्तं तेन रुद्रस्य परि पातास्ताम् ॥

    स्वर रहित पद पाठ

    इमम् । इन्द्रम् । वह्निम् । पप्रिम् । अनुऽआरभध्वम् । स: । व: । नि: । वक्षत् । दु:ऽइतात्। अवद्यात् । तेन । अप । हत । शरुम् । आऽपतन्तम् । तेन । रुद्रस्य । परि । पात । अस्ताम्॥२.४७॥

    अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 47

    टिप्पणीः - ४७−[इमम्] पूर्वोक्तम् (इन्द्रम्) परमैश्वर्यवन्तं जगदीश्वरम् (वह्निम्) सर्ववोढारम् (पप्रिम्) आदृगमहनजनः किकिनौ लिट् च। पा० ३।२।१७१। प्रा पूरणे−किन्। पूरकम् (अन्वारभध्वम्) निरन्तरमवलम्बध्वम् (सः) परमेश्वरः (वः) युष्मान् (निर्वक्षत्) वहतेर्लेटि सिप्। निर्वहेत् (दुरितात्) कष्टात् (अवद्यात्) निन्द्यव्यवहारात् (तेन) इन्द्रेण सह (अपहत) नाशयत (शरुम्) वज्रम् (आपतन्तम्) (तेन) (रुद्रस्य) अ० २।२७।६। रु गतौ−क्विप्, तुक्+रु वधे−ड। रुत् ज्ञानं रवते नाशयतीति रुद्रः, तस्य ज्ञाननाशकस्य शत्रोः (परि) पृथग्भावे (पात) रक्षत (अस्ताम्) क्षिप्तामिषुम् ॥

    इस भाष्य को एडिट करें
    Top