अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 38
सूक्त - भृगुः
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
मुहु॒र्गृध्यैः॒ प्र व॑द॒त्यार्तिं॒ मर्त्यो॒ नीत्य॑। क्र॒व्याद्यान॒ग्निर॑न्ति॒काद॑नुवि॒द्वान्वि॒ताव॑ति ॥
स्वर सहित पद पाठमुहु॑: । गृध्यै॑: । प्र । व॒द॒ति॒ । आर्ति॑म् । मर्त्य॑: । नि॒ऽइत्य॑ । क्र॒व्य॒ऽअत् । यान् । अ॒ग्नि: । अ॒न्ति॒कात् । अ॒नु॒ऽवि॒द्वान् । वि॒ऽताव॑ति ॥२.३८॥
स्वर रहित मन्त्र
मुहुर्गृध्यैः प्र वदत्यार्तिं मर्त्यो नीत्य। क्रव्याद्यानग्निरन्तिकादनुविद्वान्वितावति ॥
स्वर रहित पद पाठमुहु: । गृध्यै: । प्र । वदति । आर्तिम् । मर्त्य: । निऽइत्य । क्रव्यऽअत् । यान् । अग्नि: । अन्तिकात् । अनुऽविद्वान् । विऽतावति ॥२.३८॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 38
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३८−(मुहुः) बारं बारम् (गृध्यैः) ऋदुपधाच्चाक्लृपिचृतेः। पा० ३।१।११०। गृधु लिप्सायाम्−क्यप्। लोभिभिः सह (प्र) (वदति) कथयति (आर्तिम्) आङ्+ऋ गतौ हिंसायां च−क्तिन्। पीडाम् (मर्त्यः) मनुष्यः (नीत्य) नि+इण् गतौ−ल्यप्। नीचैः प्राप्य (क्रव्यात्) मांसभक्षकः (यान्) एकवचनस्य बहुवचनम्। यं मर्त्यम् (अग्निः) अग्निवत्सन्तापको दोषादिः (अन्तिकात्) समीपात् (अनुविद्वान्) निरन्तरेण जानन् (वितावति) तु हिंसायाम्−लट्, शपो अलुक्छान्दसः। वितौति। विशेषेण हिनस्ति ॥
इस भाष्य को एडिट करें