अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 6
सूक्त - भृगुः
देवता - अग्निः
छन्दः - भुरिगार्षीपङ्क्तिः
सूक्तम् - यक्ष्मारोगनाशन सूक्त
पुन॑स्त्वादि॒त्या रु॒द्रा वस॑वः॒ पुन॑र्ब्र॒ह्मा वसु॑नीतिरग्ने। पुन॑स्त्वा॒ ब्रह्म॑ण॒स्पति॒राधा॑द्दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ॥
स्वर सहित पद पाठपुन॑: । त्वा॒ । आ॒दि॒त्या: । रु॒द्रा: । वस॑व: । पुन॑: । ब्र॒ह्मा । वसु॑ऽनीति: । अ॒ग्ने॒ । पुन॑: । त्वा॒ । ब्रह्म॑ण: । पति॑: । आ । अ॒धा॒त् । दी॒र्घा॒यु॒ऽत्वाय॑ । श॒तऽशा॑रदाय ॥२.६॥
स्वर रहित मन्त्र
पुनस्त्वादित्या रुद्रा वसवः पुनर्ब्रह्मा वसुनीतिरग्ने। पुनस्त्वा ब्रह्मणस्पतिराधाद्दीर्घायुत्वाय शतशारदाय ॥
स्वर रहित पद पाठपुन: । त्वा । आदित्या: । रुद्रा: । वसव: । पुन: । ब्रह्मा । वसुऽनीति: । अग्ने । पुन: । त्वा । ब्रह्मण: । पति: । आ । अधात् । दीर्घायुऽत्वाय । शतऽशारदाय ॥२.६॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(पुनः) निश्चयेन। विद्वत्ताशूरतादिगुणपरीक्षणेन (त्वा) त्वां राजानम् (आदित्याः) अखण्डव्रतब्रह्मचारिणः (रुद्राः) अ० २।२७।६। रुत् ज्ञानम्, रो मत्वर्थीयः। ज्ञानवन्तः (वसवः) श्रेष्ठाः (पुनः) निश्चयेन (ब्रह्मा) वेदानां ज्ञाता (वसुनीतिः) श्रेष्ठगुणप्रापकः (अग्ने) हे अग्निवत्तेजस्विन् राजन् (पुनः) (त्वा) (ब्रह्मणः) अन्नस्य। धनस्य (पतिः) रक्षकः (आ) समन्तात् (अधात्) धारितवान् (दीर्घायुत्वाय) चिरकालजीवनाय (शतशारदाय) अ० १।३५।१। शतसंवत्सरयुक्ताय ॥
इस भाष्य को एडिट करें