अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 16
सूक्त - भृगुः
देवता - अग्निः
छन्दः - ककुम्मती पराबृहत्यनुष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
अन्ये॑भ्यस्त्वा॒ पुरु॑षेभ्यो॒ गोभ्यो॒ अश्वे॑भ्यस्त्वा। निः क्र॒व्यादं॑ नुदामसि॒ यो अ॒ग्निर्जी॑वित॒योप॑नः ॥
स्वर सहित पद पाठअन्ये॑भ्य: । त्वा॒ । पुरु॑षेभ्य: । गोभ्य॑: । अश्वे॑भ्य: । त्वा॒ । नि: । क्र॒व्य॒ऽअद॑म् । नु॒दा॒म॒सि॒ । य: । अ॒ग्नि: । जी॒वि॒त॒ऽयोप॑न: ॥२.१६॥
स्वर रहित मन्त्र
अन्येभ्यस्त्वा पुरुषेभ्यो गोभ्यो अश्वेभ्यस्त्वा। निः क्रव्यादं नुदामसि यो अग्निर्जीवितयोपनः ॥
स्वर रहित पद पाठअन्येभ्य: । त्वा । पुरुषेभ्य: । गोभ्य: । अश्वेभ्य: । त्वा । नि: । क्रव्यऽअदम् । नुदामसि । य: । अग्नि: । जीवितऽयोपन: ॥२.१६॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 16
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १६−(अन्येभ्यः) माछाशसिभ्यो यः। उ० ४।१०९। अन जीवने−यः। जीवद्भ्यः (त्वा) दुष्टम् (पुरुषेभ्यः) (गोभ्यः) (अश्वेभ्यः) (त्वा) (क्रव्यादम्) मांसभक्षकम् (निर्णुदामसि) निर्गमयामः (यः) (अग्निः) अग्निवत्सन्तापकः पुरुषः (जीवितयोपनः) जीवनविमोहकः ॥
इस भाष्य को एडिट करें