अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 22
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - जगती
सूक्तम् - स्वर्गौदन सूक्त
पृ॑थि॒वीं त्वा॑ पृथि॒व्यामा वे॑शयामि त॒नूः स॑मा॒नी विकृ॑ता त ए॒षा। यद्य॑द्द्यु॒त्तं लि॑खि॒तमर्प॑णेन॒ तेन॒ मा सु॑स्रो॒र्ब्रह्म॒णापि॒ तद्व॑पामि ॥
स्वर सहित पद पाठपृ॒थि॒वीम् । त्वा॒ । पृ॒थि॒व्याम् । आ । वे॒श॒या॒मि॒ । त॒नू: । स॒मा॒नी । विऽकृ॑ता । ते॒ । ए॒षा । यत्ऽय॑त् । द्यु॒त्तम् । लि॒खि॒तम् । अर्प॑णेन । तेन॑ । मा । सु॒स्रो॒: । ब्रह्म॑णा । अपि॑ । तत् । व॒पा॒मि॒ ॥३.२२॥
स्वर रहित मन्त्र
पृथिवीं त्वा पृथिव्यामा वेशयामि तनूः समानी विकृता त एषा। यद्यद्द्युत्तं लिखितमर्पणेन तेन मा सुस्रोर्ब्रह्मणापि तद्वपामि ॥
स्वर रहित पद पाठपृथिवीम् । त्वा । पृथिव्याम् । आ । वेशयामि । तनू: । समानी । विऽकृता । ते । एषा । यत्ऽयत् । द्युत्तम् । लिखितम् । अर्पणेन । तेन । मा । सुस्रो: । ब्रह्मणा । अपि । तत् । वपामि ॥३.२२॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 22
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २२−(पृथिवीम्) प्रथेः षिवन्षवन्ष्वनः संप्रसारणं च। उ० १।१५०। प्रथ प्रख्याने−षिवन्, ङीप्। प्रख्याताम् (त्वा) त्वां प्रजाम् (पृथिव्याम्) प्रख्यातायां विद्यायाम् (आवेशयामि) प्रविष्टां करोमि (तनूः) आकृतिः (समानी) तुल्यगुणः (विकृता) विकारं गता। भिन्नभावं प्राप्ता (ते) तव (एषा) दृश्यमाना (यद्यत्) यत् किंचित् (द्युत्तम्) अ० ४।१२।२। द्योतते=ज्वलतिकर्मा−निघ० १।१६। द्योतितम्। प्रज्वलितम् (लिखितम्) विलिखितम्। विदारितम् (अर्पणेन) ऋ हिंसायाम्−णिच् पुक्−ल्युट्। हिंसनेन। कुव्यवहारेण (तेन) कारणेन (मा सुस्रोः) स्रु गतौ−क्षरणे च−लङ्। बहुलं छन्दसि। पा० २।४।७६। शपः श्लुः। मा स्रवः। मा क्षर (ब्रह्मणा) वेदेन (अपि) एव (तत्) (वपामि) डुवप बीजसन्ताने। रूपेण विकिरामि। विस्तारयामि ॥
इस भाष्य को एडिट करें