Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 4
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - त्रिष्टुप् सूक्तम् - स्वर्गौदन सूक्त

    आप॑स्पुत्रासो अ॒भि सं वि॑शध्वमि॒मं जी॒वं जी॑वधन्याः स॒मेत्य॑। तासां॑ भजध्वम॒मृतं॒ यमा॒हुर्यमो॑द॒नं पच॑ति वां॒ जनि॑त्री ॥

    स्वर सहित पद पाठ

    आप॑:। पु॒त्रा॒स॒: । अ॒भि । सम् । वि॒श॒ध्व॒म् । इ॒मम् । जी॒वम् । जी॒व॒ऽध॒न्या॒: स॒म्ऽएत्य॑ । तासा॑म् । भ॒ज॒ध्व॒म् । अ॒मृत॑म् । यम् । आ॒हु: । यम् । ओ॒द॒नम् । पच॑ति । वा॒म् । जनि॑त्री ॥३.४॥


    स्वर रहित मन्त्र

    आपस्पुत्रासो अभि सं विशध्वमिमं जीवं जीवधन्याः समेत्य। तासां भजध्वममृतं यमाहुर्यमोदनं पचति वां जनित्री ॥

    स्वर रहित पद पाठ

    आप:। पुत्रास: । अभि । सम् । विशध्वम् । इमम् । जीवम् । जीवऽधन्या: सम्ऽएत्य । तासाम् । भजध्वम् । अमृतम् । यम् । आहु: । यम् । ओदनम् । पचति । वाम् । जनित्री ॥३.४॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 4

    टिप्पणीः - ४−(आपः) द्वितीयार्थे जस्। अपः। आप्ताः प्रजाः−दयानन्दभाष्ये, यजु० ६।२७। (पुत्रासः) अ० १।११।५। पुन्नाम्नो नरकाद् यस्मात् पितरं त्रायते सुतः। तस्मात् पुत्र इति प्रोक्तः पितॄन् यः पाति सर्वतः। रामायणे, २।१०७।१२। हे पुत्राः। नरकाद् रक्षकाः (अभि) सर्वतः (सम्) संगत्य (विशध्वम्) प्रविशत (इमम्) अन्तर्हितम् (जीवम्) जीवन्तं पुरुषार्थिनं प्राणिनम् (जीवधन्याः) हे जीवेषु श्लाघ्याः (समेत्य) समागत्य (तासाम्) अपाम्। प्रजानां मध्ये (अमृतम्) मरणरहितम्। अविनाशिनम् (यम्) (आहुः) कथयन्ति विद्वांसः (यम्) (ओदनम्) अ० ११।१।१७। सुखस्य वर्षकं मेघरूपं वा परमात्मानम्। ओदनो मेघः−निघ० १।१०। (पचति) दृढं करोति (वाम्) युवयोः (जनित्री) जनयित्री। जन्मव्यवस्था ॥

    इस भाष्य को एडिट करें
    Top