अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 7
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
प्राचीं॑प्राचीं प्र॒दिश॒मा र॑भेथामे॒तं लो॒कं श्र॒द्दधा॑नाः सचन्ते। यद्वां॑ प॒क्वं परि॑विष्टम॒ग्नौ तस्य॒ गुप्त॑ये दंपती॒ सं श्र॑येथाम् ॥
स्वर सहित पद पाठप्राची॑म्ऽप्राचीम् । प्र॒ऽदिश॑म् । आ । र॒भे॒था॒म् । ए॒तम् । लो॒कम् । अ॒त्ऽदधा॑ना: । स॒च॒न्ते॒ । यत् । वा॒म् । प॒क्वम् । परि॑ऽविष्टम् । अ॒ग्नौ । तस्य॑ । गुप्त॑ये । दं॒प॒ती॒ इति॑ दम्ऽपती । सम् । श्र॒ये॒था॒म् ॥३.७॥
स्वर रहित मन्त्र
प्राचींप्राचीं प्रदिशमा रभेथामेतं लोकं श्रद्दधानाः सचन्ते। यद्वां पक्वं परिविष्टमग्नौ तस्य गुप्तये दंपती सं श्रयेथाम् ॥
स्वर रहित पद पाठप्राचीम्ऽप्राचीम् । प्रऽदिशम् । आ । रभेथाम् । एतम् । लोकम् । अत्ऽदधाना: । सचन्ते । यत् । वाम् । पक्वम् । परिऽविष्टम् । अग्नौ । तस्य । गुप्तये । दंपती इति दम्ऽपती । सम् । श्रयेथाम् ॥३.७॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(प्राचींप्राचीम्) अ० ३।२७।१। प्रत्येकाभिमुखीभूताम् (प्रदिशम्) प्रकृष्टां दिशाम् (आ रभेथाम्) आरम्भं कुरुतम् (एतम्) (लोकम्) दर्शनीयं पदम् (श्रद्दधानाः) श्रद्धावन्तः (सचन्ते) सेवन्ते (यत्) ज्ञानम् (वाम्) युवयोः (पक्वम्) दृढं ज्ञानम् (परिविष्टम्) प्रविष्टम् (अग्नौ) ज्ञानस्वरूपे परमात्मनि (तस्य) ज्ञानस्य (गुप्तये) रक्षायै (दम्पती) हे भार्यापती (सम्) परस्परम् (श्रयेथाम्) सेवेथाम् ॥
इस भाष्य को एडिट करें