Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 16
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - त्रिष्टुप् सूक्तम् - स्वर्गौदन सूक्त

    स॒प्त मेधा॑न्प॒शवः॒ पर्य॑गृह्ण॒न्य ए॑षां॒ ज्योति॑ष्माँ उ॒त यश्च॒कर्श॑। त्रय॑स्त्रिंशद्दे॒वता॒स्तान्स॑चन्ते॒ स नः॑ स्व॒र्गम॒भि ने॑ष लो॒कम् ॥

    स्वर सहित पद पाठ

    स॒प्त । मेधा॑न् । प॒शव॑: । परि॑ । अ॒गृ॒ह्ण॒न् । य: । ए॒षा॒म् । ज्योति॑ष्मान् । उ॒त । य: । च॒कर्श॑ । त्रय॑:ऽत्रिंशत्। दे॒वता॑: । तान् । स॒च॒न्ते॒ । स: । न॒: । स्व॒ऽगम् । अ॒भि । ने॒ष॒ । लो॒कम् ॥३.१६॥


    स्वर रहित मन्त्र

    सप्त मेधान्पशवः पर्यगृह्णन्य एषां ज्योतिष्माँ उत यश्चकर्श। त्रयस्त्रिंशद्देवतास्तान्सचन्ते स नः स्वर्गमभि नेष लोकम् ॥

    स्वर रहित पद पाठ

    सप्त । मेधान् । पशव: । परि । अगृह्णन् । य: । एषाम् । ज्योतिष्मान् । उत । य: । चकर्श । त्रय:ऽत्रिंशत्। देवता: । तान् । सचन्ते । स: । न: । स्वऽगम् । अभि । नेष । लोकम् ॥३.१६॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 16

    टिप्पणीः - १६−(सप्त) सप्तसंख्याकान् (मेधान्) मिधृ मेधृ संगमे हिंसामेधयोश्च−घञ्। परस्परसंगतान् त्वक्चक्षुःश्रवणरसनाघ्राणमनोबुद्धिरूपान् पदार्थान्। यज्ञान्−निघ० ३।१७। (पशवः) जीवाः (पर्यगृह्णन्) स्वीकृतवन्तः (यः) विद्वान् (एषाम्) पशूनां मध्ये (ज्योतिष्मान्) तेजस्वी (उत) अपि (यः) (चकर्श) कृश तनूकरणे−लिट्। सूक्ष्मीकृतवान् विज्ञानम् (त्रयस्त्रिंशत्) वस्वादयः−अ० १०।७।१३। (देवताः) देवाः (तान्) जीवान् (सचन्ते) सेवन्ते (सः) स त्वम् (नः) अस्मान् (स्वर्गम्) सुखप्रापकम् (अभि) प्रति (नेष) अ० ७।९७।२। णीञ् प्रापणे−लेट्, सिप्। नय। प्रापय (लोकम्) समाजम् ॥

    इस भाष्य को एडिट करें
    Top