अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 49
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
प्रि॒यं प्रि॒याणां॑ कृणवाम॒ तम॒स्ते य॑न्तु यत॒मे द्वि॒षन्ति॑। धे॒नुर॑न॒ड्वान्वयो॑वय आ॒यदे॒व पौरु॑षेय॒मप॑ मृ॒त्युं नु॑दन्तु ॥
स्वर सहित पद पाठप्रि॒यम् । प्रि॒याणा॑म् । कृ॒ण॒वा॒म॒ । तम॑: । ते । य॒न्तु॒ । य॒त॒मे । द्वि॒षन्ति॑ । धे॒नु: । अ॒न॒ड्वान् । वय॑:ऽवय: । आ॒ऽयत् । ए॒व । पौरु॑षेयम् । अप॑ । मृ॒त्युम् । नु॒द॒न्तु॒॥३.४९॥
स्वर रहित मन्त्र
प्रियं प्रियाणां कृणवाम तमस्ते यन्तु यतमे द्विषन्ति। धेनुरनड्वान्वयोवय आयदेव पौरुषेयमप मृत्युं नुदन्तु ॥
स्वर रहित पद पाठप्रियम् । प्रियाणाम् । कृणवाम । तम: । ते । यन्तु । यतमे । द्विषन्ति । धेनु: । अनड्वान् । वय:ऽवय: । आऽयत् । एव । पौरुषेयम् । अप । मृत्युम् । नुदन्तु॥३.४९॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 49
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४९−(प्रियम्) प्रीतिकरं कर्म (प्रियाणाम्) स्वहितकारकाणाम् (कृणवाम) कुर्याम (तमः) अन्धकारम्। कारागारम् (ते) दुष्टाः (यन्तु) गच्छन्तु (यतमे) ये केचित् (द्विषन्ति) वैरायन्ते (धेनुः) दोग्ध्री गौः (अनड्वान्) शकटवाहको बलीवर्दः (वयोवयः) प्रत्येकप्रकारमन्नम् (आयत्) इण् गतौ−शतृ। आगच्छत् (एव) निश्चयेन (पौरुषेयम्) पुरुष−ढञ्। मानुषम् (अप) दूरे (मृत्युम्) मरणम् (नुदन्तु) प्रेरयन्तु ॥
इस भाष्य को एडिट करें