अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 11
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
ध्रु॒वेयं वि॒राण्नमो॑ अस्त्व॒स्यै शि॒वा पु॒त्रेभ्य॑ उ॒त मह्य॑मस्तु। सा नो॑ देव्यदिते विश्ववार॒ इर्य॑ इव गो॒पा अ॒भि र॑क्ष प॒क्वम् ॥
स्वर सहित पद पाठध्रु॒वा । इ॒यम् । वि॒ऽराट् । नम॑: । अ॒स्तु॒ । अ॒स्यै । शि॒वा । पु॒त्रेभ्य॑: । उ॒त । मह्य॑म् । अ॒स्तु॒ । सा । न: । दे॒वि॒ । अ॒दि॒ते॒ । वि॒श्व॒ऽवा॒रे॒ । इर्य॑:ऽइव। गो॒पा: । अ॒भि । र॒क्ष॒ । प॒क्वम्॥३.११॥
स्वर रहित मन्त्र
ध्रुवेयं विराण्नमो अस्त्वस्यै शिवा पुत्रेभ्य उत मह्यमस्तु। सा नो देव्यदिते विश्ववार इर्य इव गोपा अभि रक्ष पक्वम् ॥
स्वर रहित पद पाठध्रुवा । इयम् । विऽराट् । नम: । अस्तु । अस्यै । शिवा । पुत्रेभ्य: । उत । मह्यम् । अस्तु । सा । न: । देवि । अदिते । विश्वऽवारे । इर्य:ऽइव। गोपा: । अभि । रक्ष । पक्वम्॥३.११॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११−(ध्रुवा) सप्तम्यां सुः। ध्रुवायामधःस्थायां दिशि (इयम्) सर्वत्र वर्तमाना (विराट्) विविधेश्वरी शक्तिः परमेश्वरः (नमः) सत्कारः (अस्तु) (अस्यै) विराजे (शिवा) कल्याणी (पुत्रेभ्यः) म० ४। नरकात् त्रायकेभ्यः (उत) अपि (मह्यम्) उपासकाय (अस्तु) (सा) सा त्वम् (नः) अस्मान् (देवि) हे दिव्यगुणे (अदिते) हे अखण्डव्रते (विश्ववारे) अ० ७।२०।४। हे सर्ववरणीयगुणयुक्ते (इर्यः) ईर गतौ−क्यप्, छान्दसो ह्रस्वः। गमनशीलः। वेगवान् (इव) यथा (गोपाः) गोरक्षकः (अभि) प्रति (रक्ष) (पक्वम्) दृढं ज्ञानम् ॥
इस भाष्य को एडिट करें