अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 23
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
जनि॑त्रीव॒ प्रति॑ हर्यासि सू॒नुं सं त्वा॑ दधामि पृथि॒वीं पृ॑थि॒व्या। उ॒खा कु॒म्भी वेद्यां॒ मा व्य॑थिष्ठा यज्ञायु॒धैराज्ये॒नाति॑षक्ता ॥
स्वर सहित पद पाठजनि॑त्रीऽइव । प्रति॑ । ह॒र्या॒सि॒ । सू॒नुम् । सम् । त्वा॒ । द॒धा॒मि॒ । पृ॒थि॒वीम् । पृ॒थि॒व्या । उ॒खा । कु॒म्भी । वेद्या॑म् । मा । व्य॒थि॒ष्ठा॒: । य॒ज्ञ॒ऽआ॒यु॒धै: । आज्ये॑न । अति॑ऽसक्ता ॥३.२३॥
स्वर रहित मन्त्र
जनित्रीव प्रति हर्यासि सूनुं सं त्वा दधामि पृथिवीं पृथिव्या। उखा कुम्भी वेद्यां मा व्यथिष्ठा यज्ञायुधैराज्येनातिषक्ता ॥
स्वर रहित पद पाठजनित्रीऽइव । प्रति । हर्यासि । सूनुम् । सम् । त्वा । दधामि । पृथिवीम् । पृथिव्या । उखा । कुम्भी । वेद्याम् । मा । व्यथिष्ठा: । यज्ञऽआयुधै: । आज्येन । अतिऽसक्ता ॥३.२३॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 23
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २३−(जनित्री) जनयित्री। जननी (इव) यथा (प्रति) निश्चयेन (हर्यासि) लेटि रूपम्। हर्य। परस्परं कामयस्व (सूनुम्) पुत्रम् (सम्) संयुज्य (दधामि) धरामि (पृथिवीम्) म० २२। प्रख्याताम् (पृथिव्या) प्रख्यातया विद्यया सह (उखा) पाकपात्रम् (कुम्भी) स्थाली (वेद्याम्) अग्न्याधारे (मा व्यथिष्ठाः) व्यथां मा प्राप्नुहि (यज्ञायुधैः) यज्ञोपकरणैः (आज्येन) घृतेन सह (अतिवक्ता) षञ्ज सङ्गे−क्त। अतिदृढीकृता ॥
इस भाष्य को एडिट करें