Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 52
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - त्रिष्टुप् सूक्तम् - स्वर्गौदन सूक्त

    यद॒क्षेषु॒ वदा॒ यत्समि॑त्यां॒ यद्वा॒ वदा॒ अनृ॑तं वित्तका॒म्या। स॑मा॒नं तन्तु॑म॒भि सं॒वसा॑नौ॒ तस्मि॒न्त्सर्वं॒ शम॑लं सादयाथः ॥

    स्वर सहित पद पाठ

    यत् । अ॒क्षेषु॑ । वदा॑: । यत् । सम्ऽइ॑त्याम् । यत् । वा॒ । वदा॑: । अनृ॑तम् । वि॒त्त॒ऽका॒म्या । स॒मा॒नम् । तन्तु॑म् । अ॒भि। स॒म्ऽवसा॑नौ । तस्मि॑न् । सर्व॑म् । शम॑लम् । सा॒द॒या॒थ॒:॥३.५२॥


    स्वर रहित मन्त्र

    यदक्षेषु वदा यत्समित्यां यद्वा वदा अनृतं वित्तकाम्या। समानं तन्तुमभि संवसानौ तस्मिन्त्सर्वं शमलं सादयाथः ॥

    स्वर रहित पद पाठ

    यत् । अक्षेषु । वदा: । यत् । सम्ऽइत्याम् । यत् । वा । वदा: । अनृतम् । वित्तऽकाम्या । समानम् । तन्तुम् । अभि। सम्ऽवसानौ । तस्मिन् । सर्वम् । शमलम् । सादयाथ:॥३.५२॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 52

    टिप्पणीः - ५२−(यत्) असत्यम् (अक्षेषु) व्यवहारेषु। राजगृहविवादेषु (वदाः) लेट्। कथयेः (यत्) (समित्याम्) सङ्ग्रामे (यत्) (वा) अथवा (वदाः) (अनृतम्) असत्यम् (वित्तकाम्या) वसिवपियजि०। उ० ४।१२५। कमु कान्तौ−इञ्। धनकामनया (समानम्) तुल्यम् (तन्तुम्) सूत्रम्। वस्त्रमित्यर्थः (अभि) प्रति (संवसानौ) सम्यग् आच्छादितौ (तस्मिन्) अनृते (सर्वम्) संपूर्णम् (शमलम्) भ्रष्टकर्म (सादयाथः) लेट्। स्थापयिष्यथः ॥

    इस भाष्य को एडिट करें
    Top