अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 24
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - जगती
सूक्तम् - स्वर्गौदन सूक्त
अ॒ग्निः पच॑न्रक्षतु त्वा पु॒रस्ता॒दिन्द्रो॑ रक्षतु दक्षिण॒तो म॒रुत्वा॑न्। वरु॑णस्त्वा दृंहाद्ध॒रुणे॑ प्र॒तीच्या॑ उत्त॒रात्त्वा॒ सोमः॒ सं द॑दातै ॥
स्वर सहित पद पाठअ॒ग्नि: । पच॑न् । र॒क्ष॒तु॒ । त्वा॒ । पु॒रस्ता॑त् । इन्द्र॑: । र॒क्ष॒तु॒ । द॒क्षि॒ण॒त: ।म॒रुत्वा॑न् । वरु॑ण: । त्वा॒ । दृं॒हा॒त् । ध॒रुणे॑ । प्र॒तीच्या॑: । उ॒त्त॒रात् । त्वा॒ । सोम॑: । सम् । द॒दा॒तै॒ ॥३.२५॥
स्वर रहित मन्त्र
अग्निः पचन्रक्षतु त्वा पुरस्तादिन्द्रो रक्षतु दक्षिणतो मरुत्वान्। वरुणस्त्वा दृंहाद्धरुणे प्रतीच्या उत्तरात्त्वा सोमः सं ददातै ॥
स्वर रहित पद पाठअग्नि: । पचन् । रक्षतु । त्वा । पुरस्तात् । इन्द्र: । रक्षतु । दक्षिणत: ।मरुत्वान् । वरुण: । त्वा । दृंहात् । धरुणे । प्रतीच्या: । उत्तरात् । त्वा । सोम: । सम् । ददातै ॥३.२५॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 24
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २४−(अग्निः) ज्ञानस्वरूपः परमेश्वरः (पचन्) पक्वं दृढं कुर्वन् (रक्षतु) पालयतु (त्वा) त्वां पुरुषम् (पुरस्तात्) पूर्वदिक्सकाशात्। अग्रतः (इन्द्रः) परमेश्वर्ययुक्तः परमेश्वरः (दक्षिणतः) दक्षिणदिशायाः। दक्षिणदेशात् (मरुत्वान्) मरुत्, हिरण्यनाम−निघ० १।२। प्रशस्तधनवान्। रत्नधातमः (वरुणः) वृञ्−उनन्। सर्वोत्तमः परमेश्वरः (त्वा) (दृंहात्) वर्धयेत्। दृढीकुर्यात् (धरुणे) धृञ् धारणे−उनन्। धारणसामर्थ्ये (प्रतीच्याः) पश्चिमायाः पश्चाद्भागस्थिताया वा दिशः (उत्तरात्) उत्तरदेशाद् वामदेशात् वा (त्वा) (सोमः) सर्वजगदुत्पादकः (सं ददातै) लेटि रूपम्। स्वीकरोतु ॥
इस भाष्य को एडिट करें