अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 37
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
उप॑ स्तृणीहि प्र॒थय॑ पु॒रस्ता॑द्घृ॒तेन॒ पात्र॑म॒भि घा॑रयै॒तत्। वा॒श्रेवो॒स्रा तरु॑णं स्तन॒स्युमि॒मं दे॑वासो अभि॒हिङ्कृ॑णोत ॥
स्वर सहित पद पाठउप॑ । स्तृ॒णी॒हि॒ । प्र॒थय॑ । पु॒रस्ता॑त् । घृ॒तेन॑ । पात्र॑म् । अ॒भि । धा॒र॒य॒ । ए॒तत् । वा॒श्राऽइ॑व । उ॒स्रा । तरु॑णम् । स्त॒न॒स्युम्। इ॒मम् । दे॒वा॒स॒: । अ॒भि॒ऽहिङ्कृ॑णोत ॥३.३७॥
स्वर रहित मन्त्र
उप स्तृणीहि प्रथय पुरस्ताद्घृतेन पात्रमभि घारयैतत्। वाश्रेवोस्रा तरुणं स्तनस्युमिमं देवासो अभिहिङ्कृणोत ॥
स्वर रहित पद पाठउप । स्तृणीहि । प्रथय । पुरस्तात् । घृतेन । पात्रम् । अभि । धारय । एतत् । वाश्राऽइव । उस्रा । तरुणम् । स्तनस्युम्। इमम् । देवास: । अभिऽहिङ्कृणोत ॥३.३७॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 37
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३७−(उपस्तृणीहि) स्तॄञ् आच्छादने। विस्तारय (प्रथय) प्रख्यातं कुरु (पुरस्तात्) अग्रतः (घृतेन) घृ दीप्तौ−क्त। सारपदार्थेन। तत्त्वज्ञानेन (पात्रम्) पा रक्षणे−ष्ट्रन्। विद्यादियुक्तं दानयोग्यं ब्राह्मणम् (धारय) धृ दीप्तौ−णिच्। प्रकाशय (एतत्) (वाश्रा) स्फायितञ्चिवञ्चि०। उ० २।१३। वाशृ शब्दे−रक्। शब्दायमाना (इव) यथा (उस्रा) स्फायितञ्चिवञ्चि०। उ० २।१३। वस निवासे−रक्, टाप्। गौः (तरुणम्) नूतनम् (स्तनस्युम्) सुप आत्मनः क्यच्। पा० ३।१।८। स्तन−क्यच्। सर्वप्रातिपदिकानां क्यचि लालसायां सुगसुकौ। वा० पा० ७।१।५१। सुगागमः। क्याच्छन्दसि। पा० ३।२।१७०। उ प्रत्ययः। स्तनमिच्छन्तं वत्सम् (इमम्) आत्मानम् (देवासः) हे विद्वांसः (अभिहिङ्कृणोत) अ० ७।७३।८। हि गतिवृद्ध्योः−डि। अभिगतवृद्धिं कुरुत ॥
इस भाष्य को एडिट करें