Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 25
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - त्रिष्टुप् सूक्तम् - स्वर्गौदन सूक्त

    पू॒ताः प॒वित्रैः॑ पवन्ते अ॒भ्राद्दिवं॑ च॒ यन्ति॑ पृथि॒वीं च॑ लो॒कान्। ता जी॑व॒ला जी॒वध॑न्याः प्रति॒ष्ठाः पात्र॒ आसि॑क्ताः॒ पर्य॒ग्निरि॑न्धाम् ॥

    स्वर सहित पद पाठ

    पू॒ता: । प॒वित्रै॑: । प॒व॒न्ते॒ । अ॒भ्रात् । दिव॑म् । च॒ । यन्ति॑ । पृ॒थि॒वीम् । च॒ । लो॒कान् । ता: । जी॒व॒ला: । जी॒वऽध॑न्या: । प्र॒ति॒ऽस्था: । पात्रे॑ । आऽसि॑क्ता: । परि॑ । अ॒ग्नि: । इ॒न्धा॒म् ॥३.२६॥


    स्वर रहित मन्त्र

    पूताः पवित्रैः पवन्ते अभ्राद्दिवं च यन्ति पृथिवीं च लोकान्। ता जीवला जीवधन्याः प्रतिष्ठाः पात्र आसिक्ताः पर्यग्निरिन्धाम् ॥

    स्वर रहित पद पाठ

    पूता: । पवित्रै: । पवन्ते । अभ्रात् । दिवम् । च । यन्ति । पृथिवीम् । च । लोकान् । ता: । जीवला: । जीवऽधन्या: । प्रतिऽस्था: । पात्रे । आऽसिक्ता: । परि । अग्नि: । इन्धाम् ॥३.२६॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 25

    टिप्पणीः - २५−(पूताः) शोधिताः−म० २७। (पवित्रैः) शुद्धाचारैः (पवन्ते) शोधयन्ति (अभ्रात्) अभ्र गतौ−अप्। ल्यब्लोपे कर्मण्युपसंख्यानम्। वा० पा० ३।२।२८। अभ्रमुपायं संसाध्य (दिवम्) विजिगीषाम् (च) (यन्ति) प्राप्नुवन्ति (पृथिवीम्) प्रख्यातां विद्याम् (च) (लोकान्) दर्शनीयान् निवासान्, (ताः) प्रजाः−मा २७ (जीवलाः) अ० ६।५९।३। सिध्मादिभ्यश्च। पा० ५।२।९७। जीव्−लच् मत्वर्थे। जीवनयुक्ताः (जीवधन्याः) जीवेषु प्रशस्ताः (प्रतिष्ठाः) प्रतिष्ठां प्राप्ताः (पात्रे) रक्षासाधने ब्रह्मणि (आसिक्ताः) समन्तात् सेचनयुक्ताः (परि) सर्वतः (अग्निः) प्रकाशस्वरूपः परमेश्वरः (इन्धाम्) दीपयतु ॥

    इस भाष्य को एडिट करें
    Top