अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 39
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - अनुष्टुब्गर्भा त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
यद्य॑ज्जा॒या पच॑ति॒ त्वत्परः॑परः॒ पति॑र्वा जाये॒ त्वत्ति॒रः। सं तत्सृ॑जेथां स॒ह वां॒ तद॑स्तु संपा॒दय॑न्तौ स॒ह लो॒कमेक॑म् ॥
स्वर सहित पद पाठयत्ऽय॑त् । जा॒या । पच॑ति । त्वत् । प॒र॒:ऽप॑र: । पति॑: । वा॒ । जा॒ये॒ । त्वत् । ति॒र: । सम् । तत् । सृ॒जे॒था॒म् । स॒ह । वा॒म् । तत् । अ॒स्तु॒ । स॒म्ऽपा॒दय॑न्तौ । स॒ह । लो॒कम् । एक॑म्॥३.३९॥
स्वर रहित मन्त्र
यद्यज्जाया पचति त्वत्परःपरः पतिर्वा जाये त्वत्तिरः। सं तत्सृजेथां सह वां तदस्तु संपादयन्तौ सह लोकमेकम् ॥
स्वर रहित पद पाठयत्ऽयत् । जाया । पचति । त्वत् । पर:ऽपर: । पति: । वा । जाये । त्वत् । तिर: । सम् । तत् । सृजेथाम् । सह । वाम् । तत् । अस्तु । सम्ऽपादयन्तौ । सह । लोकम् । एकम्॥३.३९॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 39
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३९−(यद्यत्) यत्किंचित् (जाया) पत्नी (पचति) पक्वं करोति (त्वत्) तव सकाशात् (परः परः) पॄ पालनपूरणयोः−असुन्। दूरं दूरम् (पतिः) (वा) (जाये) हे पत्नि (त्वत्) (तिरः) अन्तर्धाने (तत्) गृहस्थकर्म (संसृजेथाम्) संयोजयतम् (सह) साहित्ये (वाम्) युवयोः (तत्) (अस्तु) (संपादयन्तौ) संसाधयन्तौ (सह) (लोकम्) गृहम् (एकम्) ॥
इस भाष्य को एडिट करें