Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 8
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - जगती सूक्तम् - स्वर्गौदन सूक्त

    दक्षि॑णां॒ दिश॑म॒भि नक्ष॑माणौ प॒र्याव॑र्तेथाम॒भि पात्र॑मे॒तत्। तस्मि॑न्वां य॒मः पि॒तृभिः॑ संविदा॒नः प॒क्वाय॒ शर्म॑ बहु॒लं नि य॑च्छात् ॥

    स्वर सहित पद पाठ

    दक्षि॑णाम् । दिश॑म् । अ॒भि । नक्ष॑माणौ । प॒रि॒ऽआव॑र्तेथाम् । अ॒भि । पात्र॑म् । ए॒तत् । तस्मि॑न् । वा॒म् । य॒म: । पि॒तृऽभि॑: । स॒म्ऽवि॒दा॒न: । प॒क्वाय॑ । शर्म॑ । ब॒हु॒लम् । नि । य॒च्छा॒त् ॥३.८॥


    स्वर रहित मन्त्र

    दक्षिणां दिशमभि नक्षमाणौ पर्यावर्तेथामभि पात्रमेतत्। तस्मिन्वां यमः पितृभिः संविदानः पक्वाय शर्म बहुलं नि यच्छात् ॥

    स्वर रहित पद पाठ

    दक्षिणाम् । दिशम् । अभि । नक्षमाणौ । परिऽआवर्तेथाम् । अभि । पात्रम् । एतत् । तस्मिन् । वाम् । यम: । पितृऽभि: । सम्ऽविदान: । पक्वाय । शर्म । बहुलम् । नि । यच्छात् ॥३.८॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 8

    टिप्पणीः - ८−(दक्षिणाम्) दक्षिणहस्तगताम् (दिशम्) (अभि) प्रति (नक्षमाणौ) गच्छन्तौ−निघ० २।१४। (पर्यावर्तेथाम्) परित आगत्य वर्तेथाम् (अभि) प्रति (पात्रम्) रक्षासाधनं ब्रह्म (एतत्) प्रत्यक्षम् (तस्मिन्) ब्रह्मणि (वाम्) युवयोः (यमः) नियमः (पितृभिः) रक्षकैर्विद्वद्भिः (संविदानः) संगच्छमानः (पक्वाय) दृढज्ञानाय (शर्म) सुखम् (बहुलम्) (नि) नित्यम् (यच्छात्) दद्यात् ॥

    इस भाष्य को एडिट करें
    Top