1046 परिणाम मिले!
- आ भानुना पार्थिवानि ज्रयांसि महस्तोदस्य धृषता ततन्थ। स बाधस्वाप भया सहोभिः स्पृधो वनुष्यन् वनुषो नि जूर्व ॥६॥ - Rigveda/6/6/6
- आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः। सरस्वती सारस्वतेभिरर्वाक् तिस्रो देवीर्बर्हिरेदं सदन्तु ॥८॥ - Rigveda/7/2/8
- आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः। सरस्वती सारस्वतेभिरर्वाक् तिस्रो देवीर्बर्हिरेदं सदन्तु॥ - Rigveda/3/4/8
- आ मध्वो अस्मा असिचन्नमत्रमिन्द्राय पूर्णं स हि सत्यराधाः । स वावृधे वरिमन्ना पृथिव्या अभि क्रत्वा नर्य: पौंस्यैश्च ॥ - Rigveda/10/29/7
- आ मध्वो अस्मा असिचन्नमत्रमिन्द्राय पूर्णं स हि सत्यराधाः। स वावृधे वरिमन्ना पृथिव्या अभि क्रत्वा नर्यः पौंस्यैश्च ॥ - Atharvaveda/20/76/0/7
- आ मनीषामन्तरिक्षस्य नृभ्य: स्रुचेव घृतं जुहवाम विद्मना। तरणित्वा ये पितुरस्य सश्चिर ऋभवो वाजमरुहन्दिवो रज: ॥ - Rigveda/1/110/6
- आ मन्द्रमा वरेण्यमा विप्रमा मनीषिणम् । पान्तमा पुरुस्पृहम् ॥ - Rigveda/9/65/29
- आ मन्द्रमा वरेण्यमा विप्रमा मनीषिणम् । पान्तमा पुरुस्पृहम् ॥११३८॥ - Samveda/1138
- आ मन्द्रस्य सनिष्यन्तो वरेण्यं वृणीमहे अह्रयं वाजमृग्मियम्। रातिं भृगूणामुशिजं कविक्रतुमग्निं राजन्तं दिव्येन शोचिषा॥ - Rigveda/3/2/4
- आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः । मा त्वा के चिन्नि येमुरिन्न पाशिनोऽति धन्वेव ताꣳ इहि ॥१७१८॥ - Samveda/1718
- आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः । मा त्वा के चिन्नि येमुरिन्न पाशिनोऽति धन्वेव ताꣳ इहि ॥२४६॥ - Samveda/246
- आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः। मा त्वा के चिद्वि यमन्विं न पाशिनोऽति धन्वेव ताँ इहि ॥ - Atharvaveda/7/117/0/1
- आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः। मा त्वा के चिन्नि यमन्विं न पाशिनोऽति धन्वेव ताँ इहि॥ - Rigveda/3/45/1
- आ मन्येथामा गतं कच्चिदेवैर्विश्वे जनासो अश्विना हवन्ते। इमा हि वां गोऋजीका मधूनि प्र मित्रासो न ददुरुस्रो अग्रे॥ - Rigveda/3/58/4
- आ मा पुष्टे च पोषे च रात्रि देवानां सुमतौ स्याम। पूर्णा दर्वे परा पत सुपूर्णा पुनरा पत। सर्वान्यज्ञान्त्संभुञ्जतीषमूर्जं न आ भर ॥ - Atharvaveda/3/10/0/7
- आ मा पूषन्नुप द्रव शंसिषं नु ते अपिकर्ण आघृणे। अघा अर्यो अरातयः ॥१६॥ - Rigveda/6/48/16
- आ मां मित्रावरुणेह रक्षतं कुलाययद्विश्वयन्मा न आ गन्। अजकावं दुर्दृशीकं तिरो दधे मा मां पद्येन रपसा विदत्त्सरुः ॥१॥ - Rigveda/7/50/1
- आ मा वाजस्य प्रसवो जगम्यादेमे द्यावापृथिवी विश्वरूपे । आ मा गन्ताम्पितरा मातरा चा मा सोमो ऽअमृतत्वेन गम्यात् । वाजिनो वाजजितो वाजँ ससृवाँसो बृहस्पतेर्भागमव जिघ्रत निमृजानाः ॥ - Yajurveda/9/19
- आ मारुक्षत्पर्णमणिर्मह्या अरिष्टतातये। यथाहमुत्तरोऽसान्यर्यम्ण उत संविदः ॥ - Atharvaveda/3/5/0/5
- आ मारुक्षद्देवमणिर्मह्या अरिष्टतातये। इमं मेथिमभिसंविशध्वं तनूपानं त्रिवरूथमोजसे ॥ - Atharvaveda/8/5/0/20
- आ मित्रावरुणा भगं मध्व: पवन्त ऊर्मय: । विदाना अस्य शक्मभिः ॥ - Rigveda/9/7/8
- आ मित्रे वरुणे भगे मधोः पवन्त ऊर्मयः । विदाना अस्य शक्मभिः ॥११३५॥ - Samveda/1135
- आ मित्रे वरुणे वयं गीर्भिर्जुहुमो अत्रिवत्। नि बर्हिषि सदतं सोमपीतये ॥१॥ - Rigveda/5/72/1
- आ मे अस्य प्रतीव्य१मिन्द्रनासत्या गतम् । देवा देवेभिरद्य सचनस्तमा ॥ - Rigveda/8/26/8
- आ मे धनं सरस्वती पयस्फातिं च धान्यम्। सिनीवाल्युपा वहादयं चौदुम्बरो मणिः ॥ - Atharvaveda/19/31/0/10
- आ मे महच्छतभिषग्वरीय आ मे द्वया प्रोष्ठपदा सुशर्म। आ रेवती चाश्वयुजौ भगं म आ मे रयिं भरण्य आ वहन्तु ॥ - Atharvaveda/19/7/0/5
- आ मे वचांस्युद्यता द्युमत्तमानि कर्त्वा । उभा यातं नासत्या सजोषसा प्रति हव्यानि वीतये ॥ - Rigveda/8/101/7
- आ मे हवं नासत्याश्विना गच्छतं युवम् । मध्व: सोमस्य पीतये ॥ - Rigveda/8/85/1
- आ यं नरः सुदानवो ददाशुषे दिवः कोशमचुच्यवुः। वि पर्जन्यं सृजन्ति रोदसी अनु धन्वना यन्ति वृष्टयः ॥६॥ - Rigveda/5/53/6
- आ यः पप्रौ जायमान उर्वी दूरेदृशा भासा कृष्णाध्वा। अध बहु चित्तम ऊर्म्यायास्तिरः शोचिषा ददृशे पावकः ॥४॥ - Rigveda/6/10/4
- आ यः पप्रौ भानुना रोदसी उभे धूमेन धावते दिवि। तिरस्तमो ददृश ऊर्म्यास्वा श्यावास्वरुषो वृषा श्यावा अरुषो वृषा ॥६॥ - Rigveda/6/48/6
- आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो३ नार्वा । सूरो न रुरुक्वाञ्छतात्मा ॥१७७४॥ - Samveda/1774
- आ यः पुरं नार्मिणीमदीदेदत्य: कविर्नभन्यो३ नार्वा। सूरो न रुरुक्वाञ्छतात्मा ॥ - Rigveda/1/149/3
- आ यं पृणन्ति दिवि सद्मबर्हिषः समुद्रं न सुभ्वः१ स्वा अभिष्टयः। तं वृत्रहत्ये अनु तस्थुरूतयः शुष्मा इन्द्रमवाता अह्रुतप्सवः ॥ - Rigveda/1/52/4
- आ यं विशन्तीन्दवो वयो न वृक्षमन्धसः। विरप्शिन्वि मृधो जहि रक्षस्विनीः ॥ - Atharvaveda/6/2/0/2
- आ यः सोमेन जठरमपिप्रतामन्दत मघवा मध्वो अन्धसः। यदीं मृगाय हन्तवे महावधः सहस्रभृष्टिमुशना वधं यमत् ॥२॥ - Rigveda/5/34/2
- आ यः स्व१र्ण भानुना चित्रो विभात्यर्चिषा। अञ्जानो अजरैरभि॥ - Rigveda/2/8/4
- आ यं हस्ते न खादिनं शिशुं जातं न बिभ्रति। विशामग्निं स्वध्वरम् ॥४०॥ - Rigveda/6/16/40
- आ यज्ञैर्देव मर्त्य इत्था तव्यांसमूतये। अग्निं कृते स्वध्वरे पूरुरीळीतावसे ॥१॥ - Rigveda/5/17/1
- आ यत्पतन्त्येन्य: सुदुघा अनपस्फुरः । अपस्फुरं गृभायत सोममिन्द्राय पातवे ॥ - Rigveda/8/69/10
- आ यत्पतन्त्येन्य: सुदुघा अनपस्फुरः। अपस्फुरं गृभायत सोममिन्द्राय पातवे ॥ - Atharvaveda/20/92/0/7
- आ यत्साकं यशसो वावशानाः सरस्वती सप्तथी सिन्धुमाता। याः सुष्वयन्त सुदुघाः सुधारा अभि स्वेन पयसा पीप्यानाः ॥६॥ - Rigveda/7/36/6
- आ यदश्वान्वनन्वतः श्रद्धयाहं रथे रुहम् । उत वामस्य वसुनश्चिकेतति यो अस्ति याद्व: पशुः ॥ - Rigveda/8/1/31
- आ यदिन्द्रश्च दद्वहे सहस्रं वसुरोचिषः । ओजिष्ठमश्व्यं पशुम् ॥ - Rigveda/8/34/16
- आ यदिषे नृपतिं तेज आनट्छुचि रेतो निषिक्तं द्यौरभीके। अग्निः शर्धमनवद्यं युवानं स्वाध्यं जनयत्सूदयच्च ॥ - Rigveda/1/71/8
- आ यदिषे नृपतिन्तेज आनट्शुचि रेतो निषिक्तन्द्यौरभीके । अग्निः शर्धमनवद्यँयुवानँ स्वाध्यञ्जनयत्सूदयच्च ॥ - Yajurveda/33/11
- आ यद्दुवः शतक्रतवा कामं जरितॄणाम् । ऋणोरक्षं न शचीभिः ॥१०८६॥ - Samveda/1086
- आ यद्दुवः शतक्रतवा कामं जरितॄणाम्। ऋणोरक्षं न शचीभिः ॥ - Atharvaveda/20/122/0/3
- आ यद्दुवः शतक्रतवा कामं जरितॄणाम्। ऋणोरक्षं न शचीभिः॥ - Rigveda/1/30/15
- आ यद्दुवस्याद्दुवसे न कारुरस्माञ्चक्रे मान्यस्य मेधा। ओ षु वर्त्त मरुतो विप्रमच्छेमा ब्रह्माणि जरिता वो अर्चत् ॥ - Rigveda/1/165/14