Loading...

1046 परिणाम मिले!

  • आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा । अस्माꣳ अव मघवन्गोमति व्रजे वज्रिञ्चित्राभिरूतिभिः ॥८६३॥ - Samveda/863
  • आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा। अस्माँ अव मघवन्गोमति व्रजे वज्रिं चित्राभिरूतिभिः ॥ - Atharvaveda/20/81/0/2
  • आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा। अस्माँ अव मघवन्गोमति व्रजे वज्रिञ्चित्राभिरूतिभिः ॥ - Atharvaveda/20/92/0/21
  • आ पप्रौ पार्थिवं रजो बद्बधे रोचना दिवि। न त्वावाँ इन्द्र कश्चन न जातो न जनिष्यतेऽति विश्वं ववक्षिथ ॥ - Rigveda/1/81/5
  • आ परमाभिरुत मध्यमाभिर्नियुद्भिर्यातमवमाभिरर्वाक्। दृळ्हस्य चिद्गोमतो वि व्रजस्य दुरो वर्तं गृणते चित्रराती ॥११॥ - Rigveda/6/62/11
  • आ पर्जन्यस्य वृष्ट्योदस्थामामृता वयम्। व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥ - Atharvaveda/3/31/0/11
  • आ पर्वतस्य मरुतामवांसि देवस्य त्रातुरव्रि भगस्य। पात्पतिर्जन्यादंहसो नो मित्रो मित्रियादुत न उरुष्येत् ॥५॥ - Rigveda/4/55/5
  • आ पवमान धारय रयिं सहस्रवर्चसम् । अस्मे इन्दो स्वाभुवम् ॥ - Rigveda/9/12/9
  • आ पवमान धारया रयिꣳ सहस्रवर्चसम् । अस्मे इन्दो स्वाभुवम् ॥१२०३॥ - Samveda/1203
  • आ पवमान नो भरार्यो अदाशुषो गयम् । कृधि प्रजावतीरिष: ॥ - Rigveda/9/23/3
  • आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः । इषे पवस्व संयतम् ॥९०६॥ - Samveda/906
  • आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुव: । इषे पवस्व संयतम् ॥ - Rigveda/9/65/3
  • आ पवस्व गविष्टये महे सोम नृचक्षसे । एन्द्रस्य जठरे विश ॥ - Rigveda/9/66/15
  • आ पवस्व दिशां पत आर्जीकात्सोम मीढ्वः । ऋतवाकेन सत्येन श्रद्धया तपसा सुत इन्द्रायेन्दो परि स्रव ॥ - Rigveda/9/113/2
  • आ पवस्व मदिन्तम पवित्रं धारया कवे । अर्कस्य योनिमासदम् ॥ - Rigveda/9/25/6
  • आ पवस्व मदिन्तम पवित्रं धारया कवे । अर्कस्य योनिमासदम् ॥ - Rigveda/9/50/4
  • आ पवस्व मदिन्तम पवित्रं धारया कवे । अर्कस्य योनिमासदम् ॥१२०८॥ - Samveda/1208
  • आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत् । अश्ववत्सोम वीरवत् ॥८९५॥ - Samveda/895
  • आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत् । अश्वावद्वाजवत्सुतः ॥ - Rigveda/9/41/4
  • आ पवस्व सहस्रिणं रयिं गोमन्तमश्विनम् । पुरुश्चन्द्रं पुरुस्पृहम् ॥ - Rigveda/9/62/12
  • आ पवस्व सहस्रिणं रयिं सोम सुवीर्यम् । अस्मे श्रवांसि धारय ॥ - Rigveda/9/63/1
  • आ पवस्व सहस्रिणꣳ रयिꣳ सोम सुवीर्यम् । अस्मे श्रवाꣳसि धारय ॥५०१ - Samveda/501
  • आ पवस्व सुवीर्यं मन्दमानः स्वायुध । इहो ष्विन्दवा गहि ॥ - Rigveda/9/65/5
  • आ पवस्व सुवीर्यं मन्दमानः स्वायुध । इहो ष्विन्दवा गहि ॥७८६॥ - Samveda/786
  • आ पवस्व हिरण्यवदश्वावत्सोम वीरवत् । वाजं गोमन्तमा भर ॥ - Rigveda/9/63/18
  • आ पशुं गासि पृथिवीं वनस्पतीनुषासा नक्तमोषधीः । विश्वे च नो वसवो विश्ववेदसो धीनां भूत प्रावितार: ॥ - Rigveda/8/27/2
  • आ पश्चातान्नासत्या पुरस्तादाश्विना यातमधरादुदक्तात् । आ विश्वत: पाञ्चजन्येन राया यूयं पात स्वस्तिभि: सदा नः ॥ - Rigveda/7/72/5
  • आ पश्चातान्नासत्या पुरस्तादाश्विना यातमधरादुदक्तात् । आ विश्वत: पाञ्चजन्येन राया यूयं पात स्वस्तिभि: सदा नः ॥ - Rigveda/7/73/5
  • आ पश्यति प्रति पश्यति परा पश्यति पश्यति। दिवमन्तरिक्षमाद्भूमिं सर्वं तद्देवि पश्यति ॥ - Atharvaveda/4/20/0/1
  • आ पुत्रासो न मातरं विभृत्राः सानौ देवासो बर्हिषः सदन्तु। आ विश्वाची विदथ्यामनक्त्वग्ने मा नो देवताता मृधस्कः ॥३॥ - Rigveda/7/43/3
  • आ पूषञ्चित्रबर्हिषमाघृणे धरुणं दिवः। आजा नष्टं यथा पशुम्॥ - Rigveda/1/23/13
  • आ प्यायस्व मदिन्तम सोम विश्वेभिरंशुभि:। भवा नः सुश्रवस्तम: सखा वृधे ॥ - Rigveda/1/91/17
  • आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् । भवा वाजस्य सङ्थे ॥ - Yajurveda/12/112
  • आ प्यायस्व समेतु ते विश्वत: सोम वृष्ण्यम् । भवा वाजस्य संगथे ॥ - Rigveda/9/31/4
  • आ प्यायस्व समेतु ते विश्वत: सोम वृष्ण्यम्। भवा वाजस्य संगथे ॥ - Rigveda/1/91/16
  • आ प्र द्रव परमस्याः परावतः शिवे ते द्यावापृथिवी उभे स्ताम्। तदयं राजा वरुणस्तथाह स त्वायमह्वत्स उपेदमेहि ॥ - Atharvaveda/3/4/0/5
  • आ प्र द्रव परावतोऽर्वावतश्च वृत्रहन् । मध्व: प्रति प्रभर्मणि ॥ - Rigveda/8/82/1
  • आ प्र द्रव हरिवो मा वि वेनः पिशङ्गराते अभि नः सचस्व। नहि त्वदिन्द्र वस्यो अन्यदस्त्यमेनाँश्चिज्जनिवतश्चकर्थ ॥२॥ - Rigveda/5/31/2
  • आ प्र यात मरुतो विष्णो अश्विना पूषन्माकीनया धिया । इन्द्र आ यातु प्रथमः सनिष्युभिर्वृषा यो वृत्रहा गृणे ॥ - Rigveda/8/27/8
  • आ प्रच्यवेथामप तन्मृजेथां यद्वामभिभा अत्रोचुः। अस्मादेतमघ्न्यौतद्वशीयो दातुः पितृष्विहभोजनौ मम ॥ - Atharvaveda/18/4/0/49
  • आ प्रत्यञ्चं दाशुषे दाश्वंसं सरस्वन्तं पुष्टपतिं रयिष्ठाम्। रायस्पोषं श्रवस्युं वसाना इह हुवेम सदनं रयीणाम् ॥ - Atharvaveda/7/40/0/2
  • आ प्रागाद्भद्रा युवतिरह्नः केतून्त्समीर्त्सति । अभूद्भद्रा निवेशनी विश्वस्य जगतो रात्री ॥६०८ - Samveda/608
  • आ बुन्दं वृत्रहा ददे जातः पृच्छद्वि मातरम् । क उग्राः के ह शृण्विरे ॥ - Rigveda/8/45/4
  • आ बुन्दं वृत्रहा ददे जातः पृच्छाद्वि मातरम् । क उग्राः के ह शृण्विरे ॥२१६॥ - Samveda/216
  • आ ब्रह्मन्ब्राह्मणो ब्रह्मवर्चसी जायतामा राष्ट्रे राजन्यः शूरऽइषव्यो तिव्याधी महारथो जायतान्दोग्ध्री धेनुर्वोढानड्वानाशुः सप्तिः पुरन्धिर्याषा जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य वीरो जायतान्निकामेनिकामे नः पर्जन्यो वर्षतु फलवत्यो न ओषधयः पच्यन्ताँयोगक्षेमो नः कल्पताम् ॥ - Yajurveda/22/22
  • आ भन्दमाने उपाके नक्तोषासा सुपेशसा। यह्वी ऋतस्य मातरा सीदतां बर्हिरा सुमत् ॥ - Rigveda/1/142/7
  • आ भन्दमाने उषसा उपाके उत स्मयेते तन्वा३ विरूपे। यथा नो मित्रो वरुणो जुजोषदिन्द्रो मरुत्वाँ उत वा महोभिः॥ - Rigveda/3/4/6
  • आ भरतं शिक्षतं वज्रबाहू अस्माँ इन्द्राग्नी अवतं शचीभिः। इमे नु ते रश्मय: सूर्यस्य येभि: सपित्वं पितरो न आसन् ॥ - Rigveda/1/109/7
  • आ भात्यग्निरुषसामनीकमुद्विप्राणां देवया वाचो अस्थुः । अर्वाञ्चा नूनꣳ रथ्येह यातं पीपिवाꣳसमश्विना घर्ममच्छ ॥१७५२॥ - Samveda/1752
  • आ भात्यग्निरुषसामनीकमुद्विप्राणां देवया वाचो अस्थुः। अर्वाञ्चा नूनं रथ्येह यातं पीपिवांसमश्विना घर्ममच्छ ॥१॥ - Rigveda/5/76/1
Top