Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 13
सूक्त - आत्मा
देवता - त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
शि॒वानारी॒यमस्त॒माग॑न्नि॒मं धा॒ता लो॒कम॒स्यै दि॑देश। ताम॑र्य॒मा भगो॑ अ॒श्विनो॒भाप्र॒जाप॑तिः प्र॒जया॑ वर्धयन्तु ॥
स्वर सहित पद पाठशि॒वा । नारी॑ । इ॒यम् । अस्त॑म् । आ । अ॒ग॒न् । इ॒मम् । धा॒ता । लो॒कम् । अ॒स्यै । दि॒दे॒श॒ । ताम् । अ॒र्य॒मा । भग॑: । अ॒श्विना॑। उ॒भा । प्र॒जाऽप॑ति: । प्र॒ऽजया॑ । व॒र्ध॒य॒न्तु॒ ॥२.१३॥
स्वर रहित मन्त्र
शिवानारीयमस्तमागन्निमं धाता लोकमस्यै दिदेश। तामर्यमा भगो अश्विनोभाप्रजापतिः प्रजया वर्धयन्तु ॥
स्वर रहित पद पाठशिवा । नारी । इयम् । अस्तम् । आ । अगन् । इमम् । धाता । लोकम् । अस्यै । दिदेश । ताम् । अर्यमा । भग: । अश्विना। उभा । प्रजाऽपति: । प्रऽजया । वर्धयन्तु ॥२.१३॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 13
विषय - गृहआश्रम का उपदेश।
पदार्थ -
(इयम्) यह (शिवा)मङ्गलदायिनी (नारी) नारी [नर की पत्नी] (अस्तम्) घर में (आ अगन्) प्राप्त होवे, (धाता) सर्वपोषक [परमात्मा] ने (अस्यै) इस [वधू] को (इमम्) यह (लोकम्) लोक [समाज] (दिदेश) दिया है। (ताम्) उस [वधू] को (अर्यमा) श्रेष्ठों का मान करनेवाला [राजा], (भगः) ऐश्वर्यवान् [आचार्य], (उभा) दोनों (अश्विना) विद्या को प्राप्त [स्त्री-पुरुषों के समाज], और (प्रजापतिः) प्रजापालक [परमेश्वर] (प्रजया) उत्तमसन्तान से (वर्धयन्तु) बढ़ावें ॥१३॥
भावार्थ - जब परमात्मा की कृपासे उत्तम वधू उत्तम वर को प्राप्त हो, राजा की व्यवस्था, आचार्य की शिक्षा, विद्वान् स्त्री-पुरुषों की सत्सङ्गति और परमात्मा की भक्ति से वधू-वर दोनोंगुणवान् श्रेष्ठ सन्तान उत्पन्न करें ॥१३॥
टिप्पणी -
१३−(शिवा) मङ्गलदायिनी (नारी) नरस्यपत्नी (इयम्) गुणवती (अस्तम्) गृहम् (आ अगन्) आगच्छतु (इमम्) दृश्यमानम् (धाता)सर्वधारकः परमेश्वरः (लोकम्) समाजम् (अस्यै) वध्वै (दिदेश) दत्तवान् (ताम्)वधूम् (अर्यमा) श्रेष्ठानां मानयिता राजा (भगः) ऐश्वर्यवानाचार्यः (अश्विना)प्राप्तविद्यौ स्त्रीपुरुषसमूहौ (प्रजापतिः) प्रजापालको जगदीश्वरः (प्रजया)श्रेष्ठसन्तानेन (वर्धयन्तु) उन्नयन्तु ॥