Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 62
सूक्त - आत्मा
देवता - पथ्यापङ्क्ति
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
यत्ते॑प्र॒जायां॑ प॒शुषु॒ यद्वा॑ गृ॒हेषु॒ निष्ठि॑तमघ॒कृद्भि॑र॒घं कृ॒तम्।अ॒ग्निष्ट्वा॒ तस्मा॒देन॑सः सवि॒ता च॒ प्र मु॑ञ्चताम् ॥
स्वर सहित पद पाठयत् । ते॒ । प्र॒ऽजाया॑म् । प॒शुषु॑ । यत् । वा॒ । गृ॒हेषु॑ । निऽस्थि॑तम् । अ॒घ॒कृत्ऽभि॑: । अ॒घम् । कृ॒तम् । अ॒ग्नि:। त्वा॒ । तस्मा॑त् । एन॑स: । स॒वि॒ता । च॒ । प्र । मु॒ञ्च॒ता॒म् ॥२.६२॥
स्वर रहित मन्त्र
यत्तेप्रजायां पशुषु यद्वा गृहेषु निष्ठितमघकृद्भिरघं कृतम्।अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥
स्वर रहित पद पाठयत् । ते । प्रऽजायाम् । पशुषु । यत् । वा । गृहेषु । निऽस्थितम् । अघकृत्ऽभि: । अघम् । कृतम् । अग्नि:। त्वा । तस्मात् । एनस: । सविता । च । प्र । मुञ्चताम् ॥२.६२॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 62
विषय - गृहआश्रम का उपदेश।
पदार्थ -
[हे गृहस्थ !] (यत्)यदि (ते) तेरी (प्रजायाम्) प्रजा [जनपद के लोगों] में, (पशुषु) पशुओं में, (वा)अथवा (यत्) यदि (गृहेषु) घरों में (अघकृद्भिः) दुःख करनेवाले [रोगों वामनुष्यों] करके (कृतम्) किया गया (अघम्) दुःख (निष्ठितम्) स्थित कर दिया गया है। (अग्निः) तेजस्वी (च) और (सविता) प्रेरक पुरुष (त्वा) तुझे (तस्मात् एनसः) उसकष्ट से (प्र) सर्वथा (मुञ्चताम्) छुड़ावे ॥६२॥
भावार्थ - यदि प्रजा के लोगों, पशुओं वा शिल्पशाला आदि घरों में रोगों से वा दुष्ट मनुष्यों से कष्ट उपस्थितहो, विद्वान् लोग विद्याबल से और परमेश्वर के सहाय से उस कष्ट को हटावें॥६२॥
टिप्पणी -
६२−(यत्) यदि (ते) तव (प्रजायाम्) जनपदपुरुषेषु (पशुषु) गवादिषु (यत्) यदि (वा) अथवा (गृहेषु) शिल्पादिस्थानेषु (निष्ठितम्) स्थापितम् (अघवृद्भिः)दुःखकर्तृभिः (अघम्) दुःखम् (कृतम्) सम्पादितम्। अन्यत् पूर्ववत्-म० ५९ ॥