2564 परिणाम मिले!
- ये नः सपत्नाऽअप ते भवन्त्विन्द्राग्निभ्यामव बाधामहे तान् । वसवो रुद्रा आदित्या उपरिस्पृशम्मोग्रञ्चेत्तारमधिराजमक्रन् ॥ - Yajurveda/34/46
- ये न: पूर्वे पितर: सोम्यासोऽनूहिरे सोमपीथं वसिष्ठाः । तेभिर्यमः संरराणो हवींष्युशन्नुशद्भि: प्रतिकाममत्तु ॥ - Rigveda/10/15/8
- ये न: सपत्ना अप ते भवन्त्विन्द्राग्निभ्यामव बाधामहे तान् । वसवो रुद्रा आदित्या उपरिस्पृशं मोग्रं चेत्तारमधिराजमक्रन् ॥ - Rigveda/10/128/9
- ये नदीनां संस्रवन्त्युत्सासः सदमक्षिताः। तेभिर्मे सर्वैः संस्रावैर्धनं सं स्रावयामसि ॥ - Atharvaveda/1/15/0/3
- ये नाकस्याधि रोचने दिवि देवास आसते। मरुद्भिरग्न आ गहि॥ - Rigveda/1/19/6
- ये निखाता येपरोप्ता ये दग्धा ये चोद्धिताः। सर्वांस्तानग्न आ वह पितॄन्हविषेअत्तवे ॥ - Atharvaveda/18/2/0/34
- ये पथाम्पथिरक्षस ऐलबृदा आयुर्युधः । तेषाँ सहस्रयोजने व धन्वानि तन्मसि ॥ - Yajurveda/16/60
- ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति। ते मा जुषन्तां पयसा घृतेन यथा क्रीत्वा धनमाहराणि ॥ - Atharvaveda/3/15/0/2
- ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति। तेषामज्यानिं यतमो वहाति तस्मै मा देवाः परि धत्तेह सर्वे ॥ - Atharvaveda/6/55/0/1
- ये पर्वताः सोमपृष्ठा आप उत्तानशीवरीः। वातः पर्जन्य आदग्निस्ते क्रव्यादमशीशमन् ॥ - Atharvaveda/3/21/0/10
- ये पश्चाज्जुह्वति जातवेदः प्रतीच्या दिशोऽभिदासन्त्यस्मान्। वरुणमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान्प्रतिसरेण हन्मि ॥ - Atharvaveda/4/40/0/3
- ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति स्वधाभि: । अहये वा तान्प्रददातु सोम आ वा दधातु निॠतेरुपस्थे ॥ - Rigveda/7/104/9
- ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति स्वधाभिः। अहये वा तान्प्रददातु सोम आ वा दधातु निरृतेरुपस्थे ॥ - Atharvaveda/8/4/0/9
- ये पातयन्ते अज्मभिर्गिरीणां स्नुभिरेषाम् । यज्ञं महिष्वणीनां सुम्नं तुविष्वणीनां प्राध्वरे ॥ - Rigveda/8/46/18
- ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन्। ररक्ष तान्त्सुकृतो विश्ववेदा दिप्सन्त इद्रिपवो नाह देभुः ॥ - Rigveda/1/147/3
- ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन्। ररक्ष तान्त्सुकृतो विश्ववेदा दिप्सन्त इद्रिपवो नाह देभुः ॥१३॥ - Rigveda/4/4/13
- ये पितरोवधूदर्शा इमं वहतुमागमन्। ते अस्यै वध्वै संपत्न्यै प्रजावच्छर्मयच्छन्तु ॥ - Atharvaveda/14/2/0/73
- ये पुण्यानांपुण्या लोकास्तानेव तेनाव रुन्द्धे॥ - Atharvaveda/15/13/0/8
- ये पुरस्ताज्जुह्वति जातवेदः प्राच्या दिशोऽभिदासन्त्यस्मान्। अग्निमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान्प्रतिसरेण हन्मि ॥ - Atharvaveda/4/40/0/1
- ये पुरुषे ब्रह्म विदुस्ते विदुः परमेष्ठिनम्। यो वेद परमेष्ठिनं यश्च वेद प्रजापतिम्। ज्येष्ठं ये ब्राह्मणं विदुस्ते स्कम्भमनुसंविदुः ॥ - Atharvaveda/10/7/0/17
- ये पूर्वे वध्वो यन्ति हस्ते शृङ्गाणि बिभ्रतः। आपाकेस्थाः प्रहासिन स्तम्बे ये कुर्वते ज्योतिस्तानितो नाशयामसि ॥ - Atharvaveda/8/6/0/14
- ये पृथिव्यांपुण्या लोकास्तानेव तेनाव रुन्द्धे॥ - Atharvaveda/15/13/0/2
- ये पृषतीभिर्ऋष्टिभिः साकं वाशीभिरञ्जिभिः । अजायन्त स्वभानवः ॥ - Rigveda/1/37/2
- ये बध्यमानमनु दीध्याना अन्वैक्षन्त मनसा चक्षुषा च। अग्निष्टानग्रे प्र मुमोक्तु देवो विश्वकर्मा प्रजया संरराणः ॥ - Atharvaveda/2/34/0/3
- ये बाहवो या इषवो धन्वनां वीर्याणि च। असीन्परशूनायुधं चित्ताकूतं च यद्धृदि। सर्वं तदर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥ - Atharvaveda/11/9/0/1
- ये बृहत्सामानमाङ्गिरसमार्पयन्ब्राह्मणं जनाः। पेत्वस्तेषामुभयादमविस्तोकान्यावयत् ॥ - Atharvaveda/5/19/0/2
- ये ब्राह्मणं प्रत्यष्ठीवन्ये वास्मिञ्छुल्कमीषिरे। अस्नस्ते मध्ये कुल्यायाः केशान्खादन्त आसते ॥ - Atharvaveda/5/19/0/3
- ये भक्षयन्तो न वसून्यानृधुर्यानग्नयो अन्वतप्यन्त धिष्ण्याः। या तेषामवया दुरिष्टिः स्विष्टिं नस्तां कृणवद्विश्वकर्मा ॥ - Atharvaveda/2/35/0/1
- ये भूतानामधिपतयो विशिखासः कपर्दिनः । तेषाँ सहस्रयोजने व धन्वानि तन्मसि॥ - Yajurveda/16/59
- ये महो रजसो विदुर्विश्वे देवासो अद्रुहः। मरुद्भिरग्न आ गहि॥ - Rigveda/1/19/3
- ये मा क्रोधयन्ति लपिता हस्तिनं मशका इव। तानहं मन्ये दुर्हिताञ्जने अल्पशयूनिव ॥ - Atharvaveda/4/36/0/9
- ये मूर्धान: क्षितीनामदब्धास: स्वयशसः । व्रता रक्षन्ते अद्रुह: ॥ - Rigveda/8/67/13
- ये मृत्यव एकशतं या नाष्ट्रा अतितार्याः। मुञ्चन्तु तस्मात्त्वां देवा अग्नेर्वैश्वानरादधि ॥ - Atharvaveda/8/2/0/27
- ये मे पञ्चाशतं ददुरश्वानां सधस्तुति। द्युमदग्ने महि श्रवो बृहत्कृधि मघोनां नृवदमृत नृणाम् ॥५॥ - Rigveda/5/18/5
- ये यक्ष्मासो अर्भका महान्तो ये च शब्दिनः। सर्वान् दुर्णामहा मणिः शतवारो अनीनशत् ॥ - Atharvaveda/19/36/0/3
- ये यजत्रा य ईड्यास्ते ते पिबन्तु जिह्वया। मधोरग्ने वषट्कृति॥ - Rigveda/1/14/8
- ये यज्ञेन दक्षिणया समक्ता इन्द्रस्य सख्यममृतत्वमानश । तेभ्यो भद्रमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥ - Rigveda/10/62/1
- ये युध्यन्ते प्रधनेषु शूरासो ये तनूत्यज: । ये वा सहस्रदक्षिणास्ताँश्चिदेवापि गच्छतात् ॥ - Rigveda/10/154/3
- ये युध्यन्तेप्रधनेषु शूरासो ये तनूत्यजः। ये वा सहस्रदक्षिणास्तांश्चिदेवापि गच्छतात् ॥ - Atharvaveda/18/2/0/17
- ये रथिनो ये अरथा असादा ये च सादिनः। सर्वानदन्तु तान्हतान्गृध्राः श्येनाः पतत्रिणः ॥ - Atharvaveda/11/10/0/24
- ये राजानो राजकृतः सूता ग्रामण्यश्च ये। उपस्तीन्पर्ण मह्यं त्वं सर्वान्कृण्वभितो जनान् ॥ - Atharvaveda/3/5/0/7
- ये रात्रिमनुतिष्ठन्ति ये च भूतेषु जाग्रति। पशून्ये सर्वान्रक्षन्ति ते न आत्मसु जाग्रति ते नः पशुषु जाग्रति ॥ - Atharvaveda/19/48/0/5
- ये राधांसि ददत्यश्व्या मघा कामेन श्रवसो महः। ताँ अंहसः पिपृहि पर्तृभिष्ट्वं शतं पूर्भिर्यविष्ठ्य ॥१०॥ - Rigveda/7/16/10
- ये रूपाणि प्रतिमुञ्चमानाऽअसुराः सन्तः स्वधया चरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्टान्लोकात्प्र णुदात्यस्मात् ॥ - Yajurveda/2/30
- ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनादनु । पुनस्तान्यज्ञिया देवा नयन्तु यत आगताः ॥ - Rigveda/10/85/31
- ये वर्मिणो येऽवर्माणो अमित्रा ये च वर्मिणः। सर्वांस्ताँ अर्बुदे हताञ्छ्वानोऽदन्तु भूम्याम् ॥ - Atharvaveda/11/10/0/23
- ये वशाया अदानाय वदन्ति परिरापिणः। इन्द्रस्य मन्यवे जाल्मा आ वृश्चन्ते अचित्त्या ॥ - Atharvaveda/12/4/0/51
- ये वां दंसांस्यश्विना विप्रासः परिमामृशुः । एवेत्काण्वस्य बोधतम् ॥ - Rigveda/8/9/3
- ये वां दंसांस्यश्विना विप्रासः परिमामृशुः। एवेत्काण्वस्य बोधतम् ॥ - Atharvaveda/20/139/0/3
- ये वाजिनं परिपश्यन्ति पक्वं य ईमाहुः सुरभिर्निर्हरेति। ये चार्वतो मांसभिक्षामुपासत उतो तेषामभिगूर्तिर्न इन्वतु ॥ - Rigveda/1/162/12