2847 परिणाम मिले!
- अतन्द्रो यास्यन्हरितो यदास्थाद्द्वे रूपे कृणुते रोचमानः। केतुमानुद्यन्त्सहमानो रजांसि विश्वा आदित्य प्रवतो वि भासि ॥ - Atharvaveda/13/2/0/28
- अतप्यमाने अवसावन्ती अनु ष्याम रोदसी देवपुत्रे। उभे देवानामुभयेभिरह्नां द्यावा रक्षतं पृथिवी नो अभ्वात् ॥ - Rigveda/1/185/4
- अतश्चिदिन्द्र ण उपा याहि शतवाजया । इषा सहस्रवाजया ॥ - Rigveda/8/92/10
- अतश्चिदिन्द्र न उपा याहि शतवाजया । इषा सहस्रवाजया ॥२१५॥ - Samveda/215
- अतस्त्वा रयिमभि राजानं सुक्रतो दिवः । सुपर्णो अव्यथिर्भरत् ॥ - Rigveda/9/48/3
- अतस्त्वा रयिरभ्ययद्राजानꣳ सुक्रतो दिवः । सुपर्णो अव्यथी भरत् ॥८३८॥ - Samveda/838
- अतारिषुर्भरता गव्यवः समभक्त विप्रः सुमतिं नदीनाम्। प्र पिन्वध्वमिषयन्तीः सुराधा आ वक्षणाः पृणध्वं यात शीभम्॥ - Rigveda/3/33/12
- अतारिष्म तमसस्पारमस्य प्रति वां स्तोमो अश्विनावधायि। एह यातं पथिभिर्देवयानैर्विद्यामेषं वृजनं जीरदानुम् ॥ - Rigveda/1/183/6
- अतारिष्म तमसस्पारमस्य प्रति वां स्तोमो अश्विनावधायि। एह यातं पथिभिर्देवयानैर्विद्यामेषं वृजनं जीरदानुम् ॥ - Rigveda/1/184/6
- अतारिष्म तमसस्पारमस्य प्रति स्तोमं देवयन्तो दधानाः । पुरुदंसा पुरुतमा पुराजामर्त्या हवते अश्विना गीः ॥ - Rigveda/7/73/1
- अतारिष्म तमसस्पारमस्योषा उच्छन्ती वयुना कृणोति। श्रिये छन्दो न स्मयते विभाती सुप्रतीका सौमनसायाजीगः ॥ - Rigveda/1/92/6
- अति तृष्टं ववक्षिथाथैव सुमना असि। प्रप्रान्ये यन्ति पर्यन्य आसते येषां सख्ये असि श्रितः॥ - Rigveda/3/9/3
- अति त्री सोम रोचना रोहन्न भ्राजसे दिवम् । इष्णन्त्सूर्यं न चोदयः ॥ - Rigveda/9/17/5
- अति द्रव सारमेयौ श्वानौ चतुरक्षौ शबलौ साधुना पथा । अथा पितॄन्त्सुविदत्राँ उपेहि यमेन ये सधमादं मदन्ति ॥ - Rigveda/10/14/10
- अति द्रवश्वानौ सारमेयौ चतुरक्षौ शबलौ साधुना पथा। अधापितॄन्त्सुविदत्राँ अपीहि यमेन ये सधमादं मदन्ति ॥ - Atharvaveda/18/2/0/11
- अति धन्वान्यत्यपस्ततर्द श्येनो नृचक्षा अवसानदर्शः। तरन्विश्वान्यवरा रजांसीन्द्रेण सख्या शिव आ जगम्यात् ॥ - Atharvaveda/7/41/0/1
- अति धावतातिसरा इन्द्रस्य वचसा हत। अविं वृक इव मथ्नीत स वो जीवन्मा मोचि प्राणमस्यापि नह्यत ॥ - Atharvaveda/5/8/0/4
- अति नः सश्चतो नय सुगा नः सुपथा कृणु । पूषन्निह क्रतुं विदः ॥ - Rigveda/1/42/7
- अति निहो अति सृधो ऽत्यचित्तीरति द्विषः। विश्वा ह्यग्ने दुरिता तर त्वमथास्मभ्यं सहवीरं रयिं दाः ॥ - Atharvaveda/2/6/0/5
- अति निहोऽअति स्रिधोत्यचित्तिमत्यरातिमग्ने । विश्वा ह्यग्ने दुरिता सहस्वाथास्मभ्यँ सहवीराँ रयिन्दाः ॥ - Yajurveda/27/6
- अति नो विष्पिता पुरु नौभिरपो न पर्षथ । यूयमृतस्य रथ्यः ॥ - Rigveda/8/83/3
- अति वा यो मरुतो मन्यते नो ब्रह्म वा यः क्रियमाणं निनित्सात्। तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषमभि तं शोचतु द्यौः ॥२॥ - Rigveda/6/52/2
- अति वायो ससतो याहि शश्वतो यत्र ग्रावा वदति तत्र गच्छतं गृहमिन्द्रश्च गच्छतम्। वि सूनृता ददृशे रीयते घृतमा पूर्णया नियुता याथो अध्वरमिन्द्रश्च याथो अध्वरम् ॥ - Rigveda/1/135/7
- अति वारान्पवमानो असिष्यदत्कलशाँ अभि धावति । इन्द्रस्य हार्द्याविशन् ॥ - Rigveda/9/60/3
- अति विश्वाः परिष्ठा स्तेनऽइव व्रजमक्रमुः । ओषधीः प्राचुच्यवुर्यत्किञ्च तन्वो रपः ॥ - Yajurveda/12/84
- अति विश्वा: परिष्ठा स्तेन इव व्रजमक्रमुः । ओषधी: प्राचुच्यवुर्यत्किं च तन्वो३ रप: ॥ - Rigveda/10/97/10
- अति विश्वान्यरुहद्गम्भीरो वर्षिष्ठमरुहन्त श्रविष्ठाः। उशती रात्र्यनु सा भद्राभि तिष्ठते मित्र इव स्वधाभिः ॥ - Atharvaveda/19/49/0/2
- अति श्रिती तिरश्चता गव्या जिगात्यण्व्या । वग्नुमियर्ति यं विदे ॥ - Rigveda/9/14/6
- अतिथिं मानुषाणां सूनुं वनस्पतीनाम् । विप्रा अग्निमवसे प्रत्नमीळते ॥ - Rigveda/8/23/25
- अतिथीन्प्रति पश्यति हिङ्कृणोत्यभि वदति प्र स्तौत्युदकं याचत्युद्गायति। - Atharvaveda/9/6/5/8
- अतिमात्रमवर्धन्त नोदिव दिवमस्पृशन्। भृगुं हिंसित्वा सृञ्जया वैतहव्याः पराभवन् ॥ - Atharvaveda/5/19/0/1
- अतिविद्धा विथुरेणा चिदस्त्रा त्रिः सप्त सानु संहिता गिरीणाम् । न तद्देवो न मर्त्यस्तुतुर्याद्यानि प्रवृद्धो वृषभश्चकार ॥ - Rigveda/8/96/2
- अतिष्ठन्तीनामनिवेशनानां काष्ठानां मध्ये निहितं शरीरम् । वृत्रस्य निण्यं वि चरन्त्यापो दीर्घं तम आशयदिन्द्रशत्रुः ॥ - Rigveda/1/32/10
- अतिसृष्टो अपांवृषभोऽतिसृष्टा अग्नयो दिव्याः ॥ - Atharvaveda/16/1/0/1
- अतीदु शक्र ओहत इन्द्रो विश्वा अति द्विष: । भिनत्कनीन ओदनं पच्यमानं परो गिरा ॥ - Rigveda/8/69/14
- अतीदु शक्र ओहत इन्द्रो विश्वा अति द्विषः। भिनत्कनीन ओदनं पच्यमानं परो गिरा ॥ - Atharvaveda/20/92/0/11
- अतीयाम निदस्तिरः स्वस्तिभिर्हित्वावद्यमरातीः। वृष्ट्वी शं योराप उस्रि भेषजं स्याम मरुतः सह ॥१४॥ - Rigveda/5/53/14
- अतीव यो मरुतो मन्यते नो ब्रह्म वा यो निन्दिषत्क्रियमाणम्। तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषं द्यौरभिसंतपाति ॥ - Atharvaveda/2/12/0/6
- अतीहि मन्युषाविणं सुषुवांसमुपारणे । इमं रातं सुतं पिब ॥ - Rigveda/8/32/21
- अतीहि मन्युषाविणꣳ सुषुवाꣳसमुपेरय । अस्य रातौ सुतं पिब ॥२२३॥ - Samveda/223
- अतृप्णुवन्तं वियतमबुध्यमबुध्यमानं सुषुपाणमिन्द्र। सप्त प्रति प्रवत आशयानमहिं वज्रेण वि रिणा अपर्वन् ॥३॥ - Rigveda/4/19/3
- अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे । पृथिव्या अधि सानवि ॥१६७४॥ - Samveda/1674
- अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे। पृथिव्याः सप्त धामभिः॥ - Rigveda/1/22/16
- अतो न आ नॄनतिथीनतः पत्नीर्दशस्यत। आरे विश्वं पथेष्ठां द्विषो युयोतु यूयुविः ॥३॥ - Rigveda/5/50/3
- अतो वयमन्तमेभिर्युजानाः स्वक्षत्रेभिस्तन्व१: शुम्भमानाः। महोभिरेताँ उप युज्महे न्विन्द्र स्वधामनु हि नो बभूथ ॥ - Rigveda/1/165/5
- अतो विश्वान्यद्भुता चिकित्वाँ अभि पश्यति। कृतानि या च कर्त्वा॥ - Rigveda/1/25/11
- अतो वै ब्रह्मच क्षत्रं चोदतिष्ठतां ते अब्रूतां कं प्र विशावेति ॥ - Atharvaveda/15/10/0/3
- अतो वैबृहस्पतिमेव ब्रह्म प्र विशत्विन्द्रं क्षत्रं तथा वा इति ॥ - Atharvaveda/15/10/0/4
- अतो वैबृहस्पतिमेव ब्रह्म प्राविशदिन्द्रं क्षत्रं ॥ - Atharvaveda/15/10/0/5
- अत्यं मृजन्ति कलशे दश क्षिप: प्र विप्राणां मतयो वाच ईरते । पवमाना अभ्यर्षन्ति सुष्टुतिमेन्द्रं विशन्ति मदिरास इन्दवः ॥ - Rigveda/9/85/7