Loading...

2847 परिणाम मिले!

  • अत्यं हविः सचते सच्च धातु चारिष्टगातुः स होता सहोभरिः। प्रसर्स्राणो अनु बर्हिर्वृषा शिशुर्मध्ये युवाजरो विस्रुहा हितः ॥३॥ - Rigveda/5/44/3
  • अत्यन्याँ अगान्नान्याँ उपागामर्वाक्त्वा परेभ्योविदम्परो वरेभ्यः । तन्त्वा जुषामहे देव वनस्पतेदेवयज्यायै देवास्त्वा देवयज्यायै जुषन्ताँ विष्णवे त्वा । ओषधे त्रायस्व स्वधिते मैनँ हिँसीः ॥ - Yajurveda/5/42
  • अत्यर्धर्च परस्वतः ॥ - Atharvaveda/20/131/0/19
  • अत्या वृधस्नू रोहिता घृतस्नू ऋतस्य मन्ये मनसा जविष्ठा। अन्तरीयसे अरुषा युजानो युष्मांश्च देवान्विश आ च मर्तान् ॥३॥ - Rigveda/4/2/3
  • अत्या हियाना न हेतृभिरसृग्रं वाजसातये । वि वारमव्यमाशवः ॥११९१॥ - Samveda/1191
  • अत्या हियाना न हेतृभिरसृग्रं वाजसातये । वि वारमव्यमाशव: ॥ - Rigveda/9/13/6
  • अत्यायातमश्विना तिरो विश्वा अहं सना। दस्रा हिरण्यवर्तनी सुषुम्ना सिन्धुवाहसा माध्वी मम श्रुतं हवम् ॥२॥ - Rigveda/5/75/2
  • अत्यायातमश्विना तिरो विश्वा अहꣳ सना । दस्रा हिरण्यवर्तनी सुषुम्णा सिन्धुवाहसा माध्वी मम श्रुतꣳ हवम् ॥१७४४॥ - Samveda/1744
  • अत्यासो न ये मरुतः स्वञ्चो यक्षदृशो न शुभयन्त मर्याः। ते हर्म्येष्ठाः शिशवो न शुभ्रा वत्सासो न प्रक्रीळिनः पयोधाः ॥१६॥ - Rigveda/7/56/16
  • अत्यू पवित्रमक्रमीद्वाजी धुरं न यामनि । इन्दुर्देवेषु पत्यते ॥ - Rigveda/9/45/4
  • अत्यूर्मिर्मत्सरो मद: सोम: पवित्रे अर्षति । विघ्नन्रक्षांसि देवयुः ॥ - Rigveda/9/17/3
  • अत्यो न हियानो अभि वाजमर्ष स्वर्वित्कोशं दिवो अद्रिमातरम् । वृषा पवित्रे अधि सानो अव्यये सोम: पुनान इन्द्रियाय धायसे ॥ - Rigveda/9/86/3
  • अत्यो नाज्मन्त्सर्गप्रतक्तः सिन्धुर्न क्षोदः क ईं वराते ॥ - Rigveda/1/65/6
  • अत्र पितरो मादयध्वँयथाभागमा वृषायध्वम् । अमीमदन्त पितरो यथाभागमा वृषायिषत ॥ - Yajurveda/2/31
  • अत्रा ते रूपमुत्तममपश्यं जिगीषमाणमिष आ पदे गोः। यदा ते मर्तो अनु भोगमानळादिद्ग्रसिष्ठ ओषधीरजीगः ॥ - Rigveda/1/163/7
  • अत्रा ते रूपमुत्तममपश्यञ्जिगीषमाणमिषऽआ पदे गोः । यदा ते मर्ताऽअनु भोगमानडादिद्ग्रसिष्ठऽओषधीरजीगः ॥ - Yajurveda/29/18
  • अत्रा वि नेमिरेषामुरां न धूनुते वृकः । दिवो अमुष्य शासतो दिवं यय दिवावसो ॥१८०८॥ - Samveda/1808
  • अत्रा वि नेमिरेषामुरां न धूनुते वृक: । दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ - Rigveda/8/34/3
  • अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् । इत्था चन्द्रमसो गृहे ॥१४७॥ - Samveda/147
  • अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् । इत्था चन्द्रमसो गृहे ॥९१५॥ - Samveda/915
  • अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम्। इत्था चन्द्रमसो गृहे ॥ - Rigveda/1/84/15
  • अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम्। इत्था चन्द्रमसो गृहे ॥ - Atharvaveda/20/41/0/3
  • अत्राह तद्वहेथे मध्व आहुतिं यमश्वत्थमुपतिष्ठन्त जायवोऽस्मे ते सन्तु जायव:। साकं गाव: सुवते पच्यते यवो न ते वाय उप दस्यन्ति धेनवो नाप दस्यन्ति धेनव: ॥ - Rigveda/1/135/8
  • अत्राह ते हरिवस्ता उ देवीरवोभिरिन्द्र स्तवन्त स्वसारः। यत्सीमनु प्र मुचो बद्बधाना दीर्घामनु प्रसितिं स्यन्दयध्यै ॥७॥ - Rigveda/4/22/7
  • अत्रिमनु स्वराज्यमग्निमुक्थानि वावृधुः। विश्वा अधि श्रियो दधे॥ - Rigveda/2/8/5
  • अत्रिर्यद्वामवरोहन्नृबीसमजोहवीन्नाधमानेव योषा। श्येनस्य चिज्जवसा नूतनेनागच्छतमश्विना शंतमेन ॥४॥ - Rigveda/5/78/4
  • अत्रिवद्वः क्रिमयो हन्मि कण्ववज्जमदग्निवत्। अगस्त्यस्य ब्रह्मणा सं पिनष्म्यहं क्रिमीन् ॥ - Atharvaveda/2/32/0/3
  • अत्रिवद्वः क्रिमयो हन्मि कण्ववज्जमदग्निवत्। अगस्त्यस्य ब्रह्मणा सं पिनष्म्यहं क्रिमीन् ॥ - Atharvaveda/5/23/0/10
  • अत्रीणां स्तोममद्रिवो महस्कृधि पिबा सोमं मदाय कं शतक्रतो । यं ते भागमधारयन्विश्वा: सेहानः पृतना उरु ज्रय: समप्सुजिन्मरुत्वाँ इन्द्र सत्पते ॥ - Rigveda/8/36/6
  • अत्रेदु मे मंससे सत्यमुक्तं द्विपाच्च यच्चतुष्पात्संसृजानि । स्त्रीभिर्यो अत्र वृषणं पृतन्यादयुद्धो अस्य वि भजानि वेद: ॥ - Rigveda/10/27/10
  • अत्रेरिव शृणुतं पूर्व्यस्तुतिं श्यावाश्वस्य सुन्वतो मदच्युता । सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥ - Rigveda/8/35/19
  • अत्रैनानिन्द्र वृत्रहन्नुग्रो मर्मणि विध्य। अत्रैवैनानभि तिष्ठेन्द्र मेद्यहं तव। अनु त्वेन्द्रा रभामहे स्याम सुमतौ तव ॥ - Atharvaveda/5/8/0/9
  • अत्रैव वोऽपि नह्याम्युभे आर्त्नी इव ज्यया । वाचस्पते नि षेधेमान्यथा मदधरं वदान् ॥ - Rigveda/10/166/3
  • अथ य एवंविदुषा व्रात्येनानतिसृष्टो जुहोति ॥ - Atharvaveda/15/12/0/8
  • अथयस्याव्रात्यो व्रात्यब्रुवो नामबिभ्रत्यतिथिर्गृहानागच्छेत् ॥ - Atharvaveda/15/13/0/11
  • अथर्वाणं पितरं देवबन्धुं मातुर्गर्भं पितुरसुं युवानम्। य इमं यज्ञं मनसा चिकेत प्र णो वोचस्तमिहेह ब्रवः ॥ - Atharvaveda/7/2/0/1
  • अथर्वाणो अबध्नताथर्वणा अबध्नत। तैर्मेदिनो अङ्गिरसो दस्यूनां बिभिदुः पुरस्तेन त्वं द्विषतो जहि ॥ - Atharvaveda/10/6/0/20
  • अथर्वापूर्णं चमसं यमिन्द्रायाबिभर्वाजिनीवते। तस्मिन्कृणोति सुकृतस्यभक्षं तस्मिन्निन्दुः पवते विश्वदानीम् ॥ - Atharvaveda/18/3/0/54
  • अथा ते अङ्गिरस्तमाग्ने वेधस्तम प्रियम्। वोचेम ब्रह्म सानसि ॥ - Rigveda/1/75/2
  • अथा ते अन्तमानां विद्याम सुमतीनाम् । मा नो अति ख्य आ गहि ॥१०८९॥ - Samveda/1089
  • अथा ते अन्तमानां विद्याम सुमतीनाम्। मा नो अति ख्य आ गहि ॥ - Atharvaveda/20/68/0/3
  • अथा ते अन्तमानां विद्याम सुमतीनाम्। मा नो अति ख्य आ गहि ॥ - Atharvaveda/20/57/0/3
  • अथा ते अन्तमानां विद्याम सुमतीनाम्। मा नो अति ख्य आ गहि॥ - Rigveda/1/4/3
  • अथा न उभयेषाममृत मर्त्यानाम्। मिथः सन्तु प्रशस्तयः॥ - Rigveda/1/26/9
  • अथैतानष्टौ विरूपानालभतेतिदीर्घञ्चातिह््रस्वञ्चातिस्थूलञ्चातिकृशञ्चातिशुक्लञ्चातिकृष्णञ्चातिकुल्वञ्चातिलोमशञ्च । अशूद्राऽअब्राह्मणास्ते प्राजापत्याः । मागधः पुँश्चली कितवः क्लीबो शूद्राऽअब्राह्मणास्ते प्राजापत्याः ॥ - Yajurveda/30/22
  • अथो इयन्निति ॥ - Atharvaveda/20/130/0/18
  • अथो इयन्नियन्निति ॥ - Atharvaveda/20/130/0/17
  • अथो यानि च यस्मा ह यानि चान्तः परीणहि। तानि ते परि दद्मसि ॥ - Atharvaveda/19/48/0/1
  • अथो श्वा अस्थिरो भवन् ॥ - Atharvaveda/20/130/0/19
  • अथो सर्वं श्वापदं मक्षिका तृप्यतु क्रिमिः। पौरुषेयेऽधि कुणपे रदिते अर्बुदे तव ॥ - Atharvaveda/11/9/0/10
Top