Loading...

1896 परिणाम मिले!

  • तीव्रो वो मधुमाँ अयं शुनहोत्रेषु मत्सरः। एतं पिबत काम्यम्॥ - Rigveda/2/41/14
  • तुग्रो ह भुज्युमश्विनोदमेघे रयिं न कश्चिन्ममृवाँ अवाहाः। तमूहथुर्नौभिरात्मन्वतीभिरन्तरिक्षप्रुद्भिरपोदकाभिः ॥ - Rigveda/1/116/3
  • तुचे तनाय तत्सु नो द्राघीय आयुर्जीवसे । आदित्यासः सुमहसः कृणोतन ॥ - Rigveda/8/18/18
  • तुचे तुनाय तत्सु नो द्राघीय आयुर्जीवसे । आदित्यासः समहसः कृणोतन ॥३९५॥ - Samveda/395
  • तुजे नस्तने पर्वताः सन्तु स्वैतवो ये वसवो न वीराः। पनित आप्त्यो यजतः सदा नो वर्धान्नः शंसं नर्यो अभिष्टौ ॥९॥ - Rigveda/5/41/9
  • तुञ्जेतुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः। न विन्धे अस्य सुष्टुतिम् ॥ - Atharvaveda/20/70/0/13
  • तुञ्जेतुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः। न विन्धे अस्य सुष्टुतिम्॥ - Rigveda/1/7/7
  • तुभ्यं गावो घृतं पयो बभ्रो दुदुह्रे अक्षितम् । वर्षिष्ठे अधि सानवि ॥ - Rigveda/9/31/5
  • तुभ्यं घेत्ते जना इमे विश्वा: सुक्षितय: पृथक् । धासिं हिन्वन्त्यत्तवे ॥ - Rigveda/8/43/29
  • तुभ्यं ता अङ्गिरस्तम विश्वा: सुक्षितय: पृथक् । अग्ने कामाय येमिरे ॥ - Rigveda/8/43/18
  • तुभ्यं दक्ष कविक्रतो यानीमा देव मर्तासो अध्वरे अकर्म। त्वं विश्वस्य सुरथस्य बोधि सर्वं तदग्ने अमृत स्वदेह॥ - Rigveda/3/14/7
  • तुभ्यं पयो यत्पितरावनीतां राध: सुरेतस्तुरणे भुरण्यू। शुचि यत्ते रेक्ण आयजन्त सबर्दुघाया: पय उस्रियायाः ॥ - Rigveda/1/121/5
  • तुभ्यं ब्रह्माणि गिर इन्द्र तुभ्यं सत्रा दधिरे हरिवो जुषस्व। बोध्या३पिरवसो नूतनस्य सखे वसो जरितृभ्यो वयो धाः॥ - Rigveda/3/51/6
  • तुभ्यं भरन्ति क्षितयो यविष्ठ बलिमग्ने अन्तित ओत दूरात्। आ भन्दिष्ठस्य सुमतिं चिकिद्धि बृहत्ते अग्ने महि शर्म भद्रम् ॥१०॥ - Rigveda/5/1/10
  • तुभ्यं वातः पवतां मातरिश्वा तुभ्यं वर्षन्त्वमृतान्यापः। सूर्यस्ते तन्वे शं तपाति त्वां मृत्युर्दयतां मा प्र मेष्ठाः ॥ - Atharvaveda/8/1/0/5
  • तुभ्यं वाता अभिप्रियस्तुभ्यमर्षन्ति सिन्धवः । सोम वर्धन्ति ते मह: ॥ - Rigveda/9/31/3
  • तुभ्यं शुक्रास: शुचयस्तुरण्यवो मदेषूग्रा इषणन्त भुर्वण्यपामिषन्त भुर्वणि। त्वां त्सारी दसमानो भगमीट्टे तक्ववीये। त्वं विश्वस्माद्भुवनात्पासि धर्मणासुर्यात्पासि धर्मणा ॥ - Rigveda/1/134/5
  • तुभ्यं श्चोतन्त्यध्रिगो शचीवः स्तोकासो अग्ने मेदसो घृतस्य। कविशस्तो बृहता भानुनागा हव्या जुषस्व मेधिर॥ - Rigveda/3/21/4
  • तुभ्यं सुतास्तुभ्यमु सोत्वासस्त्वां गिरः श्वात्र्या आ ह्वयन्ति। इन्द्रेदमद्य सवनं जुषाणो विश्वस्य विद्वाँ इह पाहि सोमम् ॥ - Atharvaveda/20/96/0/2
  • तुभ्यं सुतास्तुभ्यमु सोत्वासस्त्वां गिर: श्वात्र्या आ ह्वयन्ति । इन्द्रेदमद्य सवनं जुषाणो विश्वस्य विद्वाँ इह पाहि सोमम् ॥ - Rigveda/10/160/2
  • तुभ्यं सोमा: सुता इमे स्तीर्णं बर्हिर्विभावसो । स्तोतृभ्य इन्द्रमा वह ॥ - Rigveda/8/93/25
  • तुभ्यं स्तोका घृतश्चुतोऽग्ने विप्राय सन्त्य। ऋषिः श्रेष्ठः समिध्यसे यज्ञस्य प्राविता भव॥ - Rigveda/3/21/3
  • तुभ्यं हिन्वानो वसिष्ट गा अपोऽधुक्षन्त्सीमविभिरद्रिभिर्नरः। पिबेन्द्र स्वाहा प्रहुतं वषट्कृतं होत्रादा सोमं प्रथमो य ईशिषे॥ - Rigveda/2/36/1
  • तुभ्यन्ता अङ्गिरस्तम विश्वाः सुक्षितयः पृथक् । अग्ने कामाय येमिरे ॥ - Yajurveda/12/116
  • तुभ्यमग्रे पर्यवहन्त्सूर्यां वहतुना सह । पुन: पतिभ्यो जायां दा अग्ने प्रजया सह ॥ - Rigveda/10/85/38
  • तुभ्यमग्रेपर्यवहन्त्सूर्यां वहतुना सह। स नः पतिभ्यो जायां दा अग्ने प्रजयासह ॥ - Atharvaveda/14/2/0/1
  • तुभ्यमारण्याः पशवो मृगा वने हिता हंसाः सुपर्णाः शकुना वयांसि। तव यक्षं पशुपते अप्स्वन्तस्तुभ्यं क्षरन्ति दिव्या आपो वृधे ॥ - Atharvaveda/11/2/0/24
  • तुभ्यमुषास: शुचयः परावति भद्रा वस्त्रा तन्वते दंसु रश्मिषु चित्रा नव्येषु रश्मिषु। तुभ्यं धेनुः सबर्दुघा विश्वा वसूनि दोहते। अजनयो मरुतो वक्षणाभ्यो दिव आ वक्षणाभ्यः ॥ - Rigveda/1/134/4
  • तुभ्यमेव जरिमन्वर्धतामयम्मेममन्ये मृत्यवो हिंसिषुः शतं ये। मातेव पुत्रं प्रमना उपस्थे मित्र एनं मित्रियात्पात्वंहसः ॥ - Atharvaveda/2/28/0/1
  • तुभ्यायं सोम: परिपूतो अद्रिभिः स्पार्हा वसान: परि कोशमर्षति शुक्रा वसानो अर्षति। तवायं भाग आयुषु सोमो देवेषु हूयते। वह वायो नियुतो याह्यस्मयुर्जुषाणो याह्यस्मयुः ॥ - Rigveda/1/135/2
  • तुभ्यायमद्रिभिः सुतो गोभि: श्रीतो मदाय कम् । प्र सोम इन्द्र हूयते ॥ - Rigveda/8/82/5
  • तुभ्येदमग्ने मधुमत्तमं वचस्तुभ्यं मनीषा इयमस्तु शं हृदे। त्वां गिरः सिन्धुमिवावनीर्महीरा पृणन्ति शवसा वर्धयन्ति च ॥५॥ - Rigveda/5/11/5
  • तुभ्येदमिन्द्र परि षिच्यते मधु त्वं सुतस्य कलशस्य राजसि । त्वं रयिं पुरुवीरामु नस्कृधि त्वं तप: परितप्याजय: स्व: ॥ - Rigveda/10/167/1
  • तुभ्येदिन्द्र मरुत्वते सुताः सोमासो अद्रिवः । हृदा हूयन्त उक्थिन: ॥ - Rigveda/8/76/8
  • तुभ्येदिन्द्र स्व ओक्ये३ सोमं चोदामि पीतये। एष रारन्तु ते हृदि॥ - Rigveda/3/42/8
  • तुभ्येदिन्द्र स्व ओक्ये सोमं चोदामि पीतये। एष रारन्तु ते हृदि ॥ - Atharvaveda/20/24/0/8
  • तुभ्येदिमा सवना शूर विश्वा तुभ्यं ब्रह्माणि वर्धना कृणोमि। त्वं नृभिर्हव्यो विश्वधासि ॥ - Atharvaveda/20/73/0/1
  • तुभ्येदिमा सवना शूर विश्वा तुभ्यं ब्रह्माणि वर्धना कृणोमि। त्वं नृभिर्हव्यो विश्वधासि ॥७॥ - Rigveda/7/22/7
  • तुभ्येदेते बहुला अद्रिदुग्धाश्चमूषदश्चमसा इन्द्रपानाः। व्यश्नुहि तर्पया काममेषामथा मनो वसुदेयाय कृष्व ॥ - Rigveda/1/54/9
  • तुभ्येदेते मरुतः सुशेवा अर्चन्त्यर्कं सुन्वन्त्यन्धः। अहिमोहानमप आशयानं प्र मायाभिर्मायिनं सक्षदिन्द्रः ॥६॥ - Rigveda/5/30/6
  • तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे । तुभ्यं धावन्ति धेनवः ॥७७७॥ - Samveda/777
  • तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे । तुभ्यमर्षन्ति सिन्धवः ॥ - Rigveda/9/62/27
  • तुभ्यꣳ सुतासः सोमाः स्तीर्णं बर्हिर्विभावसो । स्तोतृभ्य इन्द्र मृडय ॥२१३॥ - Samveda/213
  • तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः । अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे सुवानास इन्दवः ॥ - Rigveda/8/51/10
  • तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः । अस्मे रयिः पप्रथे वृष्ण्यꣳ शवोऽस्मे स्वानास इन्दवः ॥१६१०॥ - Samveda/1610
  • तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः। अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे सुवानास इन्दवः ॥ - Atharvaveda/20/119/0/2
  • तुरण्यवोऽङ्गिरसो नक्षन्त रत्नं देवस्य सवितुरियानाः। पिता च तन्नो महान्यजत्रो विश्वे देवाः समनसो जुषन्त ॥३॥ - Rigveda/7/52/3
  • तुराणामतुराणां विशामवर्जुषीणाम्। समैतु विश्वतो भगो अन्तर्हस्तं कृतं मम ॥ - Atharvaveda/7/50/0/2
  • तुरीयं नाम यज्ञियं यदा करस्तदुश्मसि । आदित्पतिर्न ओहसे ॥ - Rigveda/8/80/9
  • तुविक्षं ते सुकृतं सूमयं धनु: साधुर्बुन्दो हिरण्यय: । उभा ते बाहू रण्या सुसंस्कृत ऋदूपे चिदृदूवृधा ॥ - Rigveda/8/77/11
Top