अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 52
ये गोप॑तिं परा॒णीया॑था॒हुर्मा द॑दा॒ इति॑। रु॒द्रस्या॑स्तां ते हे॒तिं परि॑ य॒न्त्यचि॑त्त्या ॥
स्वर सहित पद पाठये । गोऽप॑तिम् । प॒रा॒ऽनीय॑ । अथ॑ । आ॒हु: । मा । द॒दा॒: । इति॑ । रु॒द्रस्य॑ । अ॒स्ताम् । ते । हे॒तिम् । परि॑ । य॒न्ति॒ । अचि॑त्त्या ॥४.५२॥
स्वर रहित मन्त्र
ये गोपतिं पराणीयाथाहुर्मा ददा इति। रुद्रस्यास्तां ते हेतिं परि यन्त्यचित्त्या ॥
स्वर रहित पद पाठये । गोऽपतिम् । पराऽनीय । अथ । आहु: । मा । ददा: । इति । रुद्रस्य । अस्ताम् । ते । हेतिम् । परि । यन्ति । अचित्त्या ॥४.५२॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 52
भाषार्थ -
(ये) जो लोग (गोपतिम्) पृथिवीपति को (पराणीय) परे ले जा कर (अथ) तदनन्तर (इति आहुः) यह कहते हैं कि (मा) न (ददाः) दे, (ते) वे (अचित्तया) निज अज्ञान के कारण (रुद्रस्य) सेनापति के (अस्ताम्) चलाए हुए अस्त्र को (परि यन्ति) सब और से प्राप्त करते हैं।