अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 10
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
अव॑ सृज॒पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धावा॑न्। आयु॒र्वसा॑न॒ उप॑ यातु॒शेषः॒ सं ग॑च्छतां त॒न्वा सु॒वर्चाः॑ ॥
स्वर सहित पद पाठअव॑ । सृ॒ज॒ । पुन॑: । अ॒ग्ने॒ । पि॒तृऽभ्य॑: । य: । ते॒ । आऽहु॑त: । चर॑ति । स्व॒धाऽवा॑न् । आयु॑: । वसा॑न: । उप॑ । या॒तु॒ । शेष॑: । सम् । ग॒च्छ॒ता॒म् । त॒न्वा᳡ । सु॒ऽवर्चा॑: ॥२.१०॥
स्वर रहित मन्त्र
अव सृजपुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधावान्। आयुर्वसान उप यातुशेषः सं गच्छतां तन्वा सुवर्चाः ॥
स्वर रहित पद पाठअव । सृज । पुन: । अग्ने । पितृऽभ्य: । य: । ते । आऽहुत: । चरति । स्वधाऽवान् । आयु: । वसान: । उप । यातु । शेष: । सम् । गच्छताम् । तन्वा । सुऽवर्चा: ॥२.१०॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(अव सृज)त्यज। देहि−स्वात्मानमिति शेषः (पुनः) वारंवारम् (अग्ने) हे विद्वन् (पितृभ्यः)रक्षकमहापुरुषाणां हिताय (यः) आत्मा (ते) तुभ्यम् (आहुतः) समन्ताद् दत्तः (चरति)गच्छति (स्वधावान्) स्वधारणशक्तिमान् (आयुः) जीवनम् (वसानः) दधानः (उपयातु)आगच्छतु (शेषः) शिष्लृ विशेषणे-अच्। विशेषगुणी (संगच्छताम्) (तन्वा) उपकारशक्त्या (सुवर्चाः) महातेजस्वी ॥
इस भाष्य को एडिट करें