अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 60
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
धनु॒र्हस्ता॑दा॒ददा॑नो मृ॒तस्य॑ स॒ह क्ष॒त्रेण॒ वर्च॑सा॒ बले॑न। स॒मागृ॑भाय॒वसु॑ भूरि पु॒ष्टम॒र्वाङ्त्वमेह्युप॑ जीवलो॒कम् ॥
स्वर सहित पद पाठधनु॑: । हस्ता॑त् । आ॒ऽददा॑न: । मृ॒तस्य॑ । स॒ह । क्षे॒त्रेण॑ । वर्च॑सा । बले॑न । स॒म्ऽआगृ॑भाय । वसु॑ । भूरि॑ । पु॒ष्टम् । अ॒र्वाङ् । त्वम् । आ । इ॒हि॒ । उप॑ । जी॒व॒ऽलो॒कम् ॥२.६०॥
स्वर रहित मन्त्र
धनुर्हस्तादाददानो मृतस्य सह क्षत्रेण वर्चसा बलेन। समागृभायवसु भूरि पुष्टमर्वाङ्त्वमेह्युप जीवलोकम् ॥
स्वर रहित पद पाठधनु: । हस्तात् । आऽददान: । मृतस्य । सह । क्षेत्रेण । वर्चसा । बलेन । सम्ऽआगृभाय । वसु । भूरि । पुष्टम् । अर्वाङ् । त्वम् । आ । इहि । उप । जीवऽलोकम् ॥२.६०॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 60
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६०−(धनुः) चापम्। शासनचिह्नम् (हस्तात्) अधिकारात् (आददानः) गृह्णानः (मृतस्य) मृतकतुल्यस्य दुर्बलेन्द्रियस्य (सह) (क्षत्रेण) क्षत्रियत्वेन (वर्चसा) (बलेन) (सभागृभाय) ग्रह उपादाने−श्ना-प्रत्ययस्य शायजादेशः, हस्य भः। संग्रहेण प्राप्नुहि (वसु) धनम् (भूरि)बहुलम् (पुष्टम्) पोषकम् (अर्वाङ्) अभिमुखः सन् (त्वम्) (एहि) आगच्छ (उप)पूजायाम् (जीवलोकम्) जीवानां जीवितानां पुरुषार्थिनां लोकं समाजम् ॥
इस भाष्य को एडिट करें