Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 17
    सूक्त - यम, मन्त्रोक्त देवता - अनुष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    ये युध्य॑न्तेप्र॒धने॑षु॒ शूरा॑सो॒ ये तनू॒त्यजः॑। ये वा॑ स॒हस्र॑दक्षिणा॒स्तांश्चि॑दे॒वापि॑ गच्छतात् ॥

    स्वर सहित पद पाठ

    ये । युध्य॑न्ते । प्र॒ऽधने॑षु । धूरा॑स: । ये । त॒नू॒ऽत्यज॑: । ये । वा॒ । स॒हस्र॑ऽदक्षिणा: । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥२.१७॥


    स्वर रहित मन्त्र

    ये युध्यन्तेप्रधनेषु शूरासो ये तनूत्यजः। ये वा सहस्रदक्षिणास्तांश्चिदेवापि गच्छतात् ॥

    स्वर रहित पद पाठ

    ये । युध्यन्ते । प्रऽधनेषु । धूरास: । ये । तनूऽत्यज: । ये । वा । सहस्रऽदक्षिणा: । तान् । चित् । एव । अपि । गच्छतात् ॥२.१७॥

    अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 17

    टिप्पणीः - १७−(ये)वीराः (युध्यन्ते) शस्त्राणि संप्रहरन्ति (प्रधनेषु) संग्रामेषु (शूरासः) शूराःपराक्रमिणः (ये) (तनूत्यजः) तनु विस्तारे तन उपकारे च-ऊ+त्यज हानौ दानेच-क्विप्। शरीराणां त्यक्तारः। उपकारस्य दातारः (ये) (वा) चार्थे (सहस्रदक्षिणाः) सहस्राणि दक्षिणाः प्रतिष्ठापदानि दत्तानि यैस्ते। अन्यत्पूर्ववत्-म० १४ ॥

    इस भाष्य को एडिट करें
    Top