अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 32
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
य॒मः परोऽव॑रो॒विव॑स्वा॒न्ततः॒ परं॒ नाति॑ पश्यामि॒ किं च॒न। य॒मे अ॑ध्व॒रो अधि॑ मे॒निवि॑ष्टो॒ भुवो॒ विव॑स्वान॒न्वात॑तान ॥
स्वर सहित पद पाठय॒म: । पर॑: । अव॑र: । विव॑स्वान् । तत॒: । पर॑म् । न । अति॑ । प॒श्या॒मि॒ । किम् । च॒न । य॒मे । अ॒ध्व॒र: । अधि॑ । मे॒ । निऽवि॑ष्ट: । भुव॑: । विव॑स्वान् । अ॒नुऽआ॑ततान ॥२.३२॥
स्वर रहित मन्त्र
यमः परोऽवरोविवस्वान्ततः परं नाति पश्यामि किं चन। यमे अध्वरो अधि मेनिविष्टो भुवो विवस्वानन्वाततान ॥
स्वर रहित पद पाठयम: । पर: । अवर: । विवस्वान् । तत: । परम् । न । अति । पश्यामि । किम् । चन । यमे । अध्वर: । अधि । मे । निऽविष्ट: । भुव: । विवस्वान् । अनुऽआततान ॥२.३२॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 32
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३२−(यमः) न्यायकारी परमात्मा (परः) दूरस्थः (अवरः) समीपस्थः (विवस्वान्)प्रकाशमयः (ततः) तस्मात् परमेश्वरात् (परम्) उत्कृष्टम् (न) निषेधे (अति)अतीत्य। उल्लङ्घ्य (पश्यामि) अवलोकयामि (यमे) न्यायकारिणि परमेश्वरे (अध्वरः)हिंसारहितो व्यवहारः (अधि) सर्वथा (मे) मह्यम् (निविष्टः) स्थापितः (भुवः) भूसत्तायाम्-क्विप्। सर्वाः सत्ताः। लोकान् (विवस्वान्) प्रकाशमयः परमेश्वरः (अन्वाततान) निरन्तरं समन्ताद् विस्तारितवान् ॥
इस भाष्य को एडिट करें