Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 37
    सूक्त - यम, मन्त्रोक्त देवता - विराट् जगती छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    ददा॑म्यस्माअव॒सान॑मे॒तद्य ए॒ष आग॒न्मम॒ चेदभू॑दि॒ह। य॒मश्चि॑कि॒त्वान्प्रत्ये॒तदा॑ह॒ममै॒ष रा॒य उप॑ तिष्ठतामि॒ह ॥

    स्वर सहित पद पाठ

    ददा॑मि । अ॒स्मै॒ । अ॒व॒ऽसान॑म् । ए॒तत् । य: । ए॒ष: । आ॒ऽअग॑न् । मम॑ । च॒ । इत् । अभू॑त् । इ॒ह । य॒म: । चि॒कि॒त्वान् । प्रति॑ । ए॒तत् । आ॒ह॒ । मम॑ । ए॒ष: । रा॒ये । उप॑ । ति॒ष्ठ॒ता॒म् । इ॒ह ॥२.३७॥


    स्वर रहित मन्त्र

    ददाम्यस्माअवसानमेतद्य एष आगन्मम चेदभूदिह। यमश्चिकित्वान्प्रत्येतदाहममैष राय उप तिष्ठतामिह ॥

    स्वर रहित पद पाठ

    ददामि । अस्मै । अवऽसानम् । एतत् । य: । एष: । आऽअगन् । मम । च । इत् । अभूत् । इह । यम: । चिकित्वान् । प्रति । एतत् । आह । मम । एष: । राये । उप । तिष्ठताम् । इह ॥२.३७॥

    अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 37

    टिप्पणीः - ३७−(ददामि)प्रयच्छामि (अस्मै) पुरुषाय (अवसानम्) विरामम् विश्रामम् (एतत्) प्रत्यक्षम् (यः) पुरुषः (एषः) विद्यमानः (आगन्) आगमत् (मम) मत्सम्बन्धी। मदुपासकः (च) (इत्)एव (अभूत्) (इह) अत्र संसारे (यमः) न्यायकारी परमात्मा (चिकित्वान्) सर्वं जानन् (प्रति) प्रत्यक्षम् (एतत्) वाक्यम् (आह) ब्रवीति (मम) मत्प्रीतिपात्रम् (एषः)पुरुषः (राये) मोक्षरूपाय धनाय (उपतिष्ठताम्) सेवताम् (इह) जगति ॥

    इस भाष्य को एडिट करें
    Top