अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 35
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
ये अ॑ग्निद॒ग्धाये अन॑ग्निदग्धा॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दय॑न्ते। त्वं तान्वे॑त्थ॒ यदि॒ तेजा॑तवेदः स्व॒धया॑ य॒ज्ञं स्वधि॑तिं जुषन्ताम् ॥
स्वर सहित पद पाठये । अ॒ग्नि॒ऽद॒ग्धा: । ये । अ॑नग्निऽदग्धा:। मध्ये॑ । दि॒व: । स्व॒धया॑ । मा॒दय॑न्ते । त्वम् । तान् । वे॒त्थ॒ । यदि॑ । ते । जा॒त॒ऽवे॒द॒: । स्व॒धया॑ । य॒ज्ञम् । स्वऽधि॑तिम् । जु॒ष॒न्ता॒म् ॥२.३५॥
स्वर रहित मन्त्र
ये अग्निदग्धाये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते। त्वं तान्वेत्थ यदि तेजातवेदः स्वधया यज्ञं स्वधितिं जुषन्ताम् ॥
स्वर रहित पद पाठये । अग्निऽदग्धा: । ये । अनग्निऽदग्धा:। मध्ये । दिव: । स्वधया । मादयन्ते । त्वम् । तान् । वेत्थ । यदि । ते । जातऽवेद: । स्वधया । यज्ञम् । स्वऽधितिम् । जुषन्ताम् ॥२.३५॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 35
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३५−(ये)पुरुषाः (अग्निदग्धाः) अग्नय आहवनीयगार्हपत्यदाक्षिणात्या दग्धाः प्रज्वलितायैस्ते ब्रह्मचारिणो गृहस्थाश्च (ये) (अनग्निदग्धाः) अग्नय आहवनीयादयो न दग्धाःप्रज्वलिता यैस्ते ज्ञानाग्निप्रदीपकाः संन्यासिनः (मध्ये) (दिवः) दिवु गतौ-डिवि।ज्ञानस्य (स्वधया) स्वधारणशक्त्या (मादयन्ते) हृष्यन्ति (त्वम्) (तान्)पूर्वोक्तान् (वेत्थ) जानासि (यदि) (ते) पूर्वोक्ताः (जातवेदः) हे प्रसिद्धज्ञानविद्वन् (स्वधया) अन्नेन-निघ० २।७। (यज्ञम्) पूजनीयं व्यवहारम् (स्वधितिम्) धिधारणे-क्तिन्। स्वधारणशक्तियुक्तम् (जुषन्ताम्) सेवन्ताम् ॥
इस भाष्य को एडिट करें