अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 36
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
शं त॑प॒ माति॑तपो॒ अग्ने॒ मा त॒न्वं तपः॑। वने॑षु॒ शुष्मो॑ अस्तु ते पृथि॒व्याम॑स्तु॒यद्धरः॑ ॥
स्वर सहित पद पाठशम् । त॒प॒ । मा । अति॑ । त॒प॒: । अग्ने॑ । मा । त॒न्व᳡म् । तप॑: । वने॑षु । शुष्म॑: । अ॒स्तु॒ । ते॒ । पृ॒थि॒व्याम् । अ॒स्तु॒ । यत् । हर॑: ॥२.३६॥
स्वर रहित मन्त्र
शं तप मातितपो अग्ने मा तन्वं तपः। वनेषु शुष्मो अस्तु ते पृथिव्यामस्तुयद्धरः ॥
स्वर रहित पद पाठशम् । तप । मा । अति । तप: । अग्ने । मा । तन्वम् । तप: । वनेषु । शुष्म: । अस्तु । ते । पृथिव्याम् । अस्तु । यत् । हर: ॥२.३६॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 36
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३६−(शम्) शान्तये (तप) शमदमादितपः कुरु (अति) अत्याचारेण (मा तपः) मा तापय।मा दुःखय कमपि (अग्ने) हे विद्वन् पुरुष (तन्वम्) कस्यचिदपि शरीरम् (मा तपः) मादुःखय (वनेषु) वन सेवने-अच्। सेवनीयव्यवहारेषु (शुष्मः) (अस्तु) (ते) तव (पृथिव्याम्) भूमौ (अस्तु) (यत्) (हरः) हरो हरतेः, ज्योतिर्हर उच्यते-निरु०४।१९। तेजः ॥
इस भाष्य को एडिट करें