Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 12
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    यौ ते॒ श्वानौ॑यम रक्षि॒तारौ॑ चतुर॒क्षौ प॑थि॒षदी॑ नृ॒चक्ष॑सा। ताभ्यां॑ राज॒न्परि॑ धेह्येनंस्व॒स्त्यस्मा अनमी॒वं च॑ धेहि ॥

    स्वर सहित पद पाठ

    यौ । ते॒ । श्वानौ॑ । य॒म॒ । र॒क्षि॒तारौ॑ । च॒तु॒:ऽअ॒क्षौ । प॒थि॒सदी॒ इति॑ प॒थि॒ऽसदी॑ । नृ॒ऽचक्ष॑सा । ताभ्या॑म् । रा॒ज॒न् । परि॑ । धे॒हि॒ । ए॒न॒म् । स्व॒स्ति । अ॒स्मै॒ । अ॒न॒मी॒वम् । च॒ । धे॒हि॒ ॥२.१२॥


    स्वर रहित मन्त्र

    यौ ते श्वानौयम रक्षितारौ चतुरक्षौ पथिषदी नृचक्षसा। ताभ्यां राजन्परि धेह्येनंस्वस्त्यस्मा अनमीवं च धेहि ॥

    स्वर रहित पद पाठ

    यौ । ते । श्वानौ । यम । रक्षितारौ । चतु:ऽअक्षौ । पथिसदी इति पथिऽसदी । नृऽचक्षसा । ताभ्याम् । राजन् । परि । धेहि । एनम् । स्वस्ति । अस्मै । अनमीवम् । च । धेहि ॥२.१२॥

    अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 12

    टिप्पणीः - १२−(यौ) रात्रिदिवसौ (ते) तव (श्वानौ) म० १—१। गमनशीलौ (यम) हेसंयमिन् जीव (रक्षितारौ) रक्षकौ (चतुरक्षौ) म० ११। चतसृषु दिक्षु व्यापकौ (पथिषदी) षद्लृ विशरणगत्यवसादनेषु-इन्। मार्गे सीदन्तौ व्यापकौ (नृचक्षसा)नेतृमनुष्यैर्द्रष्टव्यौ (ताभ्याम्) रात्रिदिवसाभ्याम् (राजन्) ऐश्वर्यवन् पुरुष (परि धेहि) डुधाञ् दाने। समर्पय (एनम्) स्वात्मानम् (स्वस्ति) सुसत्ताम्।महत्कल्याणम् (अस्मै) स्वात्मने (अनमीवम्) नैरोग्यम् (च) (धेहि) देहि ॥

    इस भाष्य को एडिट करें
    Top