अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 45
सूक्त - यम, मन्त्रोक्त
देवता - ककुम्मती अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
अमा॑सि॒ मात्रां॒स्वरगा॒मायु॑ष्मान्भूयासम्। यथाप॑रं॒ न मासा॑तै श॒ते श॒रत्सु॑ नो पु॒रा ॥
स्वर सहित पद पाठअमा॑सि । मात्रा॑म् । स्व॑: । अ॒गा॒म् । आयु॑ष्मान् । भू॒या॒स॒म् । यथा॑ । अप॑रम् । न । मासा॑तै । श॒ते । श॒रत्ऽसु॑ । नो इति॑ । पु॒रा ॥२.४५॥
स्वर रहित मन्त्र
अमासि मात्रांस्वरगामायुष्मान्भूयासम्। यथापरं न मासातै शते शरत्सु नो पुरा ॥
स्वर रहित पद पाठअमासि । मात्राम् । स्व: । अगाम् । आयुष्मान् । भूयासम् । यथा । अपरम् । न । मासातै । शते । शरत्ऽसु । नो इति । पुरा ॥२.४५॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 45
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४५−(अमासि) माङ् मानेलिङर्थे लुङ्। अहं मासीय (मात्राम्) वेदोक्तमर्यादाम् (स्वः) सुखम् (अगाम्) इण्गतौ-लिङर्थे लुङ्। ईयासम्। प्राप्नुयाम् (आयुष्मान्) उत्तमजीवनयुक्तः (भूयासम्)अन्यत् पूर्ववत्-म० ३८ ॥
इस भाष्य को एडिट करें