Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 26
    सूक्त - यम, मन्त्रोक्त देवता - भुरिक् त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    यत्ते॒अङ्ग॒मति॑हितं परा॒चैर॑पा॒नः प्रा॒णो य उ॑ वा ते॒ परे॑तः। तत्ते॑ सं॒गत्य॑पि॒तरः॒ सनी॑डा घा॒साद्घा॒सं पुन॒रा वे॑शयन्तु ॥

    स्वर सहित पद पाठ

    यत् । ते॒ । अङ्ग॑म् । अति॑ऽहितम् । प॒रा॒चै: । अ॒पा॒न: । प्रा॒ण: । य: । ऊं॒ इति॑ । वा॒ । ते॒ । परा॑ऽइत: । तत् । ते॒ । स॒म्ऽगत्य॑ । पि॒तर॑: । सऽनी॑डा: । घा॒सात् । घा॒सम् । पुन॑: । आ । वे॒श॒य॒न्तु॒ ॥२.२६॥


    स्वर रहित मन्त्र

    यत्तेअङ्गमतिहितं पराचैरपानः प्राणो य उ वा ते परेतः। तत्ते संगत्यपितरः सनीडा घासाद्घासं पुनरा वेशयन्तु ॥

    स्वर रहित पद पाठ

    यत् । ते । अङ्गम् । अतिऽहितम् । पराचै: । अपान: । प्राण: । य: । ऊं इति । वा । ते । पराऽइत: । तत् । ते । सम्ऽगत्य । पितर: । सऽनीडा: । घासात् । घासम् । पुन: । आ । वेशयन्तु ॥२.२६॥

    अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 26

    टिप्पणीः - २६−(यत्) (ते) तव (अङ्गम्) अवयवः (पराचैः) पराङ्मुखम्। प्रतिकूलम् (अतिहितम्) अतीत्य धृतम् (अपानः) प्रश्वासः (प्राणः) श्वासः (यः) (उ) चार्थे (वा) अथवा (ते) तव (परेतः) दूरे गतः (तत्) तत्सर्वम् (ते) तव (संगत्य) एकीभूय (पितरः) रक्षका महात्मानः (सनीडाः) समानगृहाः (घासात्) तृणात् (घासम्) तृणं यथा (पुनः) (आ वेशयन्तु) प्रवेशयन्तु ॥

    इस भाष्य को एडिट करें
    Top