Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 13
    सूक्त - यम, मन्त्रोक्त देवता - जगती छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    उ॑रूण॒साव॑सु॒तृपा॑वुदुम्ब॒लौ य॒मस्य॑ दू॒तौ च॑रतो॒ जनाँ॒ अनु॑। ताव॒स्मभ्यं॑दृ॒शये॒ सूर्या॑य॒ पुन॑र्दाता॒मसु॑म॒द्येह भ॒द्रम् ॥

    स्वर सहित पद पाठ

    उ॒रु॒ऽन॒सौ । अ॒सु॒ऽतृपौ॑ । उ॒दु॒म्ब॒लौ । य॒मस्य॑ । दू॒तौ । च॒र॒त॒:। जना॑न् । अनु॑ । तौ । अ॒स्मभ्य॑म् । दृ॒शये॑ । सूर्या॑य । पुन॑: । दा॒ता॒म् । असु॑म् । अ॒द्य । इ॒ह । भ॒द्रम् ॥२.१३॥


    स्वर रहित मन्त्र

    उरूणसावसुतृपावुदुम्बलौ यमस्य दूतौ चरतो जनाँ अनु। तावस्मभ्यंदृशये सूर्याय पुनर्दातामसुमद्येह भद्रम् ॥

    स्वर रहित पद पाठ

    उरुऽनसौ । असुऽतृपौ । उदुम्बलौ । यमस्य । दूतौ । चरत:। जनान् । अनु । तौ । अस्मभ्यम् । दृशये । सूर्याय । पुन: । दाताम् । असुम् । अद्य । इह । भद्रम् ॥२.१३॥

    अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 13

    टिप्पणीः - १३−(उरूणसौ) णस कौटिल्ये गतौ च-क्विप्।नसतेर्गतिकर्मा-निघ० २।१४। विस्तीर्णगतिमन्तौ (असुतृपौ) प्रज्ञातर्पकौ (उदुम्बलौ) उड संहतौ सौ० धा०-कु, डस्य दः, यद्वा उन्दी क्लेदने-कु+बलसंवरणे-खच्। संहतबलौ। दृढबलौ। रात्रिदिवसौ (यमस्य) संयमिनः पुरुषस्य (दूतौ)दुतनिभ्यां दीर्घश्च। उ० ३।९०। टुदु उपतापे, यद्वा, दु गतौ-क्त। उपतापकौ।उत्तेजकौ (चरतः) विचरतः (जनान्) मनुष्यान् (अनु) अनुलक्ष्य (तौ) तादृशौरात्रिदिवसौ (अस्मभ्यम्) (दृशये) इगुपधात् कित्। उ० ४।१२०। दृशिर् प्रेक्षणे-इप्रत्ययः, कित्। दर्शनाय (सूर्याय) सर्वप्रेरकाय परमेश्वराय (पुनः) वारंवारम् (दाताम्) लोडर्थे लुङ्, अडभावः। दत्ताम् (असुम्) प्रज्ञाम् (अद्य) इदानीन् (इह)अत्र (भद्रम्) कल्याणम् ॥

    इस भाष्य को एडिट करें
    Top