अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 6
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
त्रिक॑द्रुकेभिःपवते॒ षडु॒र्वीरेक॒मिद्बृ॒हत्। त्रि॒ष्टुब्गा॑य॒त्री छन्दां॑सि॒ सर्वा॒ ता य॒मआर्पि॑ता ॥
स्वर सहित पद पाठत्रिऽक॑द्रुकेभि: । प॒व॒ते॒ । षट् । उ॒र्वी: । एक॑म् । इत् । बृ॒हत् । त्रि॒ऽस्तुप:। गा॒य॒त्री । छन्दां॑सि । सर्वा॑ । ता । य॒मे । आर्पि॑ता ॥२.६॥
स्वर रहित मन्त्र
त्रिकद्रुकेभिःपवते षडुर्वीरेकमिद्बृहत्। त्रिष्टुब्गायत्री छन्दांसि सर्वा ता यमआर्पिता ॥
स्वर रहित पद पाठत्रिऽकद्रुकेभि: । पवते । षट् । उर्वी: । एकम् । इत् । बृहत् । त्रिऽस्तुप:। गायत्री । छन्दांसि । सर्वा । ता । यमे । आर्पिता ॥२.६॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(त्रिकद्रुकेभिः) अ० २।५।७। रुशातिभ्यां क्रुन्। उ० ४।१०३। त्रि+कद आह्वाने−क्रुन्, समासान्तः कप्। त्रयाणां संसारोत्पत्तिस्थितिविनाशानां कद्रुकैः, आह्वानैर्विधानैः (पवते) पुनाति। शोधयति (षट्) प्राच्यादिषट्संख्याकाः (उर्वीः)विस्तीर्णा दिशाः (एकम्) अद्वितीयम् (इत्) एव (बृहत्) ब्रह्म (त्रिष्टुप्)छन्दोविशेषः (गायत्री) छन्दोविशेषः (छन्दांसि) वेदमन्त्राः (सर्वा) सर्वाणि (ता)तानि। इतराणि (यमे) न्यायकारिणि परमात्मनि (आर्पिता) स्थापितानि ॥
इस भाष्य को एडिट करें