अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 14
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
सोम॒ एके॑भ्यःपवते घृ॒तमेक॒ उपा॑सते। येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ तांश्चि॑दे॒वापि॑ गच्छतात्॥
स्वर सहित पद पाठसोम॑: । एके॑भ्य: । प॒व॒ते॒ । घृ॒तम् । एके॑ । उप॑ । आ॒स॒ते॒ । येभ्य॑: । मधु॑ । प्र॒ऽधाव॑ति । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥२.१४॥
स्वर रहित मन्त्र
सोम एकेभ्यःपवते घृतमेक उपासते। येभ्यो मधु प्रधावति तांश्चिदेवापि गच्छतात्॥
स्वर रहित पद पाठसोम: । एकेभ्य: । पवते । घृतम् । एके । उप । आसते । येभ्य: । मधु । प्रऽधावति । तान् । चित् । एव । अपि । गच्छतात् ॥२.१४॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 14
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १४−(सोमः) ऐश्वर्यम् (एकेभ्यः) केभ्यश्चिद् विद्वद्भ्यः (पवते)पवतेर्गतिकर्मा-निघ० २।१४। गच्छति। प्राप्नोति (घृतम्) सारपदार्थम् (एके)केचिद् विद्वांसः (उपासते) उपभुञ्जते। सेवन्ते (येभ्यः) (मधु) विज्ञानम् (प्रधावति) प्रकर्षेण शीघ्रं गच्छति (तान्) विदुषः पुरुषान् (चित्) सत्कारे (एव)निश्चयेन (अपि) अवश्यम् (गच्छतात्) गच्छ। प्राप्नुहि ॥
इस भाष्य को एडिट करें