अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 21
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
ह्वया॑मि ते॒मन॑सा॒ मन॑ इ॒हेमान्गृ॒हाँ उप॑ जुजुषा॒ण एहि॑। सं ग॑च्छस्व पि॒तृभिः॒ सं य॒मेन॑स्यो॒नास्त्वा॒ वाता॒ उप॑ वान्तु श॒ग्माः ॥
स्वर सहित पद पाठह्वया॑मि । ते॒ । मन॑सा । मन॑: । इ॒ह । इ॒मान् । गृ॒हान् । उप॑ । जु॒जु॒षा॒ण: । आ । इ॒हि॒ । सम् । ग॒च्छ॒स्व॒ । पि॒तृऽभि॑: । सम् । य॒मेन॑ । स्यो॒ना: । त्वा॒ । वाता॑: । उप॑ । वा॒न्तु॒ । श॒ग्मा: ॥२.२१॥
स्वर रहित मन्त्र
ह्वयामि तेमनसा मन इहेमान्गृहाँ उप जुजुषाण एहि। सं गच्छस्व पितृभिः सं यमेनस्योनास्त्वा वाता उप वान्तु शग्माः ॥
स्वर रहित पद पाठह्वयामि । ते । मनसा । मन: । इह । इमान् । गृहान् । उप । जुजुषाण: । आ । इहि । सम् । गच्छस्व । पितृऽभि: । सम् । यमेन । स्योना: । त्वा । वाता: । उप । वान्तु । शग्मा: ॥२.२१॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 21
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २१−(ह्वयामि) आह्वयामि (ते) तव (मनसा) स्वान्तःकरणेन (मनः) अन्तःकरणम् (इह) अत्र (इमान्) दृश्यमानान् (गृहान्) गृहस्थान् (उप) आदरेण (जुजुषाणः) जुषी प्रीतिसेवनयोः-कानच्। प्रीयमाणः (एहि) आगच्छ (सं सं गच्छस्व)अतिशयेन सङ्गतो भव। (पितृभिः) पालकमहात्मभिः सह (यमेन) न्यायकारिणा परमात्मना सह (स्योनाः) सुखप्रदाः (त्वा) त्वाम् (वाताः) वात गतिसुखसेवनेषु-अच्। सेवनीयाः।पदार्थाः (उप) यथावत् (वान्तु) प्राप्नुवन्तु (शग्माः) युजिरुचितिजां कुश्च। उ०१।१४६। शक्लृ शक्तौ-मक्, कस्य गः। शक्तिमन्तः ॥
इस भाष्य को एडिट करें