अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 59
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
द॒ण्डंहस्ता॑दा॒ददा॑नो ग॒तासोः॑ स॒ह श्रोत्रे॑ण॒ वर्च॑सा॒ बले॑न। अत्रै॒व त्वमि॒हव॒यं सु॒वीरा॒ विश्वा॒ मृधो॑ अ॒भिमा॑तीर्जयेम ॥
स्वर सहित पद पाठद॒ण्डम् । हस्ता॑त् । आ॒ऽददा॑न: । ग॒तऽअ॑सो: । स॒ह । श्रोत्रे॑ण । वर्च॑सा । बले॑न । अत्र॑ । ए॒व । त्वम् । इ॒ह । व॒यम् । सु॒ऽवीरा॑: । विश्वा॑: । मृध॑: । अ॒भिऽमा॑ती: । ज॒ये॒म॒ ॥२.५९॥
स्वर रहित मन्त्र
दण्डंहस्तादाददानो गतासोः सह श्रोत्रेण वर्चसा बलेन। अत्रैव त्वमिहवयं सुवीरा विश्वा मृधो अभिमातीर्जयेम ॥
स्वर रहित पद पाठदण्डम् । हस्तात् । आऽददान: । गतऽअसो: । सह । श्रोत्रेण । वर्चसा । बलेन । अत्र । एव । त्वम् । इह । वयम् । सुऽवीरा: । विश्वा: । मृध: । अभिऽमाती: । जयेम ॥२.५९॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 59
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५९−(दण्डम्) शासनाधिकारम् (हस्तात्) अधिकारात् (आददानः)गृह्णानः (गतासोः) विगतप्राणस्य। मृतकसदृशस्य (सह) (श्रोत्रेण) श्रवणसामर्थ्येन।विद्याबलेन (वर्चसा) तेजसा (बलेन) सामर्थ्येन (अत्र) अस्मिन् संसारे (एव) (त्वम्) (इह) (वयम्) पुरुषार्थिनः (सुवीराः) सुवीरवन्तः (विश्वाः) सर्वाः (मृधः)संग्रामान् (अभिमातीः) अभिमन्यमानान् शत्रून् (जयेम) अभिभवेम ॥
इस भाष्य को एडिट करें