Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 54
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    पू॒षात्वे॒तश्च्या॑वयतु॒ प्र वि॒द्वानन॑ष्टपशु॒र्भुव॑नस्य गो॒पाः। स त्वै॒तेभ्यः॒परि॑ ददत्पि॒तृभ्यो॒ऽग्निर्दे॒वेभ्यः॑ सुविद॒त्रिये॑भ्यः ॥

    स्वर सहित पद पाठ

    पू॒षा । त्वा॒ । इ॒त: । च्य॒व॒य॒तु॒ । प्र । वि॒द्वान् । अन॑ष्टऽपशु: । भुव॑नस्य । गो॒पा: । स: । त्वा॒ । ए॒तेभ्य॑: । परि॑ । द॒द॒त् । पि॒तृऽभ्य॑: । अ॒ग्नि: । दे॒वेभ्य॑: । सु॒ऽवि॒द॒त्रिये॑भ्य: ॥२.५४॥


    स्वर रहित मन्त्र

    पूषात्वेतश्च्यावयतु प्र विद्वाननष्टपशुर्भुवनस्य गोपाः। स त्वैतेभ्यःपरि ददत्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रियेभ्यः ॥

    स्वर रहित पद पाठ

    पूषा । त्वा । इत: । च्यवयतु । प्र । विद्वान् । अनष्टऽपशु: । भुवनस्य । गोपा: । स: । त्वा । एतेभ्य: । परि । ददत् । पितृऽभ्य: । अग्नि: । देवेभ्य: । सुऽविदत्रियेभ्य: ॥२.५४॥

    अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 54

    टिप्पणीः - ५४−(पूषा) पोषकः परमात्मा (त्वा) त्वामुपासकम् (च्यावयतु)गमयतु (प्र) प्रकर्षेण (विद्वान्) (अनष्टपशुः) अनष्टा अहताः पशवः प्राणिनो येन सतथोक्तः (भुवनस्य) संसारस्य (गोपाः) गुपू रक्षणे-आय-प्रत्यये कृते क्विप्, अल्लोपयलोपौ। गोपायिता। रक्षकः (त्वा) (एतेभ्यः) (परि) सर्वतः (ददत्) दद्यात् (पितृभ्यः) पालकेभ्यो महात्मभ्यः (अग्निः) ज्ञानवान् परमेश्वरः (देवेभ्यः)विद्वद्भ्यः (सुविदत्रियेभ्यः) सुविदत्र-घ प्रत्ययः। सुविदत्रं धनं भवतिविन्दतेः-निरु० ७।९। बहुधनार्हेभ्यः। महाधनिभ्यः ॥

    इस भाष्य को एडिट करें
    Top