अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 47
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
ये अग्र॑वःशशमा॒नाः प॑रे॒युर्हि॒त्वा द्वेषां॒स्यन॑पत्यवन्तः। ते द्यामु॒दित्या॑विदन्तलो॒कं नाक॑स्य पृ॒ष्ठे अधि॒ दीध्या॑नाः ॥
स्वर सहित पद पाठये । अग्र॑व: । श॒श॒मा॒ना: । प॒रा॒ऽई॒यु: । हि॒त्वा । द्वेषां॑सि । अन॑पत्यऽवन्त: । ते । द्याम् । उ॒त्ऽइत्य॑ । अ॒वि॒द॒न्त॒ । लो॒कम् । नाक॑स्य । पृ॒ष्ठे । अधि॑ । दीध्याना॑: ॥२.४७॥
स्वर रहित मन्त्र
ये अग्रवःशशमानाः परेयुर्हित्वा द्वेषांस्यनपत्यवन्तः। ते द्यामुदित्याविदन्तलोकं नाकस्य पृष्ठे अधि दीध्यानाः ॥
स्वर रहित पद पाठये । अग्रव: । शशमाना: । पराऽईयु: । हित्वा । द्वेषांसि । अनपत्यऽवन्त: । ते । द्याम् । उत्ऽइत्य । अविदन्त । लोकम् । नाकस्य । पृष्ठे । अधि । दीध्याना: ॥२.४७॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 47
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४७−(ये)विद्वांसः (अग्रवः) मीपीभ्यां रुः। उ० ४।१०१। अग गतौ रु प्रत्ययः। अग्रगामिनः (शशमानाः) शश प्लुतगतौ−चानश्। प्लुतगमनशीलाः। उद्योगिनः (परेयुः) पराप्राधान्येन गताः (हित्वा) त्यक्त्वा (द्वेषांसि) विरोधान् (अनपत्यवन्तः)अघ्न्यादयश्च। उ० ४।११२। द्विनञ्पूर्वात् पत ऐश्वर्ये-यक्।पत्यतेरैश्वर्यकर्मा-निघ० २।२१। अनैश्वर्यरहिताः। परमैश्वर्यवन्तः (ते) (द्याम्)प्रकाशमानां विद्याम् (उदित्य) उत्तमतया प्राप्य (अविदन्त) विद्लृ लाभे-लुङ्।अलभन्त (लोकम्) स्थानम् (नाकस्य) महासुखस्य (दीध्यानाः) दीधीङ्दीप्तिदेवनयोः-शानच्। दीप्यमानाः ॥
इस भाष्य को एडिट करें